2023-03-13 16:05:14 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
कर्णे शब्दं कुर्वन्दुनोति । 'मणितं रतिकूजितम्' इत्युक्त्या कूजितशब्दः शब्दसामान्याभि-
धायकः ॥
प्रथमं संजातलाघवस्योत्तरकालीनगौरववत्त्वेऽपि न तदपगच्छतीति कश्चिद्वक्ति--
अग्रे लघिमा पश्चान्महतापि पिधीयते नहि महिम्ना ।
वामन इति त्रिविक्रममभिदधति दशावतारविदः ॥ ६० ॥
अग्र इति । अग्रे प्रथमतो लघिमा लाघवम् । पक्षे ह्रस्वत्वम् । पश्चादनन्तरं महतापि
महिना गौरवेण । पक्षे दैर्घ्येण । नाच्छाद्यते । एवं च नवीनातिशयितप्रतिष्ठयापि न प्राक्त-
नाप्रतिष्ठा निराकर्तुं शक्येति भावः । अत्र दृष्टान्तमाह--दशावतारविदः । एवं चोत्तरो-
त्तरप्रतिष्ठाज्ञानवत्त्वमावेद्यते । त्रिविक्रमत्वादतिदीर्घत्वमावेद्यते । वामन इति ह्रस्व इत्य-
भिदधति । एवं च परमेश्वरस्याप्येतादृशी गतिस्तत्र का वार्ता मनुजस्येति भावः । एवं
च तथा कर्म कर्तव्यं यथारम्भ एव प्रतिष्ठा भवतीति ध्वन्यते ॥
काचिन्नवीनसपत्नीशङ्कितां समाधत्ते--
अङ्के स्तनंधयस्तव चरणे परिचारिका प्रियः पृष्ठे ।
अस्ति किमु लभ्यमधिकं गृहिणि यदाशङ्कसे बालाम् ॥ ६१ ॥
अङ्क इति । अङ्के स्तनंधयो बालकः, चरणे परिचारिका दासी, पृष्ठे प्रियः । आज्ञाकारी-
त्यर्थः । पक्षपाती वा । अतोऽधिकं किमु लभ्यमस्ति । 'अलब्धम्' इत्यपि पाठः । यद्वा-
धिकं किमाशङ्कस इति योजना । गृहिणि । एवं च सर्वाधिकारवत्त्वं द्योत्यते । बालाम् ।
एवं च तथाविधज्ञानराहित्यं व्यज्यते । आशङ्कसे । एवं च सर्वसुखसत्त्वान्न बालाभीतिः
कर्तव्येति ध्वन्यते ॥
कयोश्चिदासक्तिं कश्चिद्वक्ति--
अधर उदस्तः कूजितमामीलितमक्षि लोलितो मौलिः ।
आसादितमिव चुम्बनसुखमस्पर्शेऽपि तरुणाभ्याम् ॥ ६२ ॥
अधर इति । अधर उदस्त उच्चतां नीतः । चुम्बनार्थमिति भावः । कूजितम् ।
पीडाव्यञ्जकः स्वरः कृत इत्यर्थः । अक्ष्यामीलितम् । सुखाविर्भावादिति भावः । लो-
लितो मौलिः । परित्यजेति ज्ञापनार्थमिति भावः । नायकव्यापारपूर्वकमेते पर्यायेण
व्यापाराः । इति तरुणाभ्याम् । एवं च परस्परानुरागातिशयो व्यज्यते । अस्पर्शेऽपि
स्पर्शाभावेऽपि । रजोदर्शनेऽपीति वा । चुम्बनसुखमासादितमिव । एवं चैतादृशरीत्या
संतोषसंपादनेनासक्तिविशेषो ध्वन्यते । नायिका परकीया ॥
कश्चित्कस्यचिदवस्थां कंचित्प्रति वक्ति--
अतिरभसेन भुजोऽयं वृतिविवरेण प्रवेशितः सदनम् ।
दयितास्पर्शोल्लसितो नागच्छति वर्त्मना तेन ॥ ६३ ॥