2023-03-08 15:33:55 by Pathan Vali Khan
This page has not been fully proofread.
अविनिहितमिति । वारवामदृशो वेश्याः । एवं च नैकत्र स्थिरप्रेमशालित्वमित्यावे-
द्यते । स्वच्छेषु निर्मलान्तःकरणेषु । एवं च प्रतिबिम्बभवनार्हत्वं ध्वन्यते । युवस्वविनि-
हितं हृदयम् । प्रेमेत्यर्थः । विनिहितमिवोपदर्शयन्ति । दर्पणस्वरूपेषु वदनमिव । एवं
चैतासां प्रेमभ्रमेण ये समासक्ता भवन्ति तेऽत्यन्तमूढा इति द्योत्यते । अत्र बिम्बपदं न
तथा सप्रयोजनमित्याभाति ॥
अहमस्मिन्नासक्तेति कथं लोकप्रसिद्धिरिति वादिनीं नायिकां सखी वक्ति--
अतिलज्जया त्वयैव प्रकटः प्रेयानकारि निभृतोऽपि ।
प्रासादमौलिरुपरि प्रसरन्त्या वैजयन्त्येव ॥ ५७ ॥
अतीति । अतिलजया द्रुततरगतेनेति भावः । यत्र यत्र तदीयकटाक्षस्ततोऽपसर-
णादिति मावः । त्वयैव । एवं च नान्यस्यापराध इति भावः । निभृतोऽपि केनचिदन-
धिगतोऽपि प्रेयान्प्रकटः ख्यातोऽयमस्यामासक्त इत्यकारि । यदियमेनं दृष्ट्वातिलज्जां
नाटयति, तर्ह्ययमस्यामासक्त इति लोकैरधिगतम्, अतस्तवैवापराध इति भावः । उपरि
प्रसरन्त्या । एवं च दर्शनयोग्यत्वं द्योयते । पताकयेव । प्रासादस्य देवताद्यायतनस्य
मूर्धा । यद्वा तथाविधभोगाद्यभावेऽपि कथं लोकेऽस्मत्संगतिरभिव्यक्ता जातेति वादिनीं
सखी वक्ति । त्वयातिलजयैव । न तथाविधात्यन्तसंघटनेनेति भावः । उपरि प्रसरन्त्ये-
त्यनेनान्तःप्रविष्टत्वाभावप्रदर्शनेन रताद्यपरिचित्यानन्दराहित्यं नायिकायामावेद्यते । एवं च
बहिस्तथा प्रदर्शनीयं यथा न केनापि नायकीयपरिचितिलेशोऽपि ज्ञातुं शक्य इति भावः ॥
मध्यस्थावलम्बनेन संघटितवाग्भिः खलजयोऽपि सुशक इति कश्चिद्वक्ति--
अन्योन्यग्रथनागुणयोगाद्भावः पदार्पणैर्बहुभिः ।
खलमपि तुदन्ति मेढीभूतं मध्यस्थमालम्ब्य ॥ ५८ ॥
अन्योन्येति । अन्योन्यग्रथनागुणः परस्पराविरोधिघटनारूपो गुणः । पक्षे परस्पर-
बन्धनरज्जुः । तद्योगात् । गावो वाचः । पक्षे वृषभाः । पदार्पणैर्व्यवहारपददर्शनैः ।
पक्षे चरणविन्यासैः । मेढीभूतमाधाररूपत्वान्मध्यस्थम् । पक्षपातविरहेण विवादनिर्णाय-
कम् । पक्षे मध्यभूमिस्थितं मेढीभूतम् । 'पुंसि मेढिः खले दारु न्यस्तं यत्पशुबन्धने'
इत्यमरः । अर्थात्काष्ठमालम्ब्य दुर्जनमपि । अपिना दुर्जयत्वं व्यज्यते । पक्षे धान्यमर्द-
नस्थानम् । व्यथयन्ति ॥
दुर्जनवाक्यमतिदुःसहमिति कश्चिद्वक्ति--
अननुग्रहेण न तथा व्यथयति कटुकूजितैर्यथा पिशुनः ।
रुधिरादानादधिकं दुनोति कर्णे क्वणन्मशकः ॥ १९ ॥
अनन्विति । अननुग्रहेण विरोधेन । एवं च द्रव्याद्यपहारादिद्वारा दुःखदत्वं ध्वन्यते ॥
'अर्थग्रहेण' इत्यपि पाठः । पिशुनः खलः । न तथा व्यथयति । तथाविधदुःखजनको
नेत्यर्थः । यथाकटुकूजितैर्दुष्टवचनैः पीडयति। अत्र दृष्टान्तमाह--मशको रक्तग्रहणादधिकं