This page has not been fully proofread.

आर्यासप्तशती ।
 
अविनिहितमिति । वारवामदृशो वेश्याः । एवं च नैकत्र स्थिरप्रेमशालित्वमित्यावे-

द्यते । स्वच्छेषु निर्मलान्तःकरणेषु । एवं च प्रतिबिम्बभवनार्हत्वं ध्वन्यते । युवस्वविनि-

हितं हृदयम् । प्रेमेत्यर्थः । विनिहितमिवोपदर्शयन्ति । दर्पणस्वरूपेषु वदनमिव । एवं

चैतासां प्रेमभ्रमेण ये समासक्ता भवन्ति तेऽत्यन्तमूढा इति द्योत्यते । अत्र बिम्बपदं न

तथा सप्रयोजनमित्याभाति ॥
 

 
अहमस्मिन्नासक्तेति कथं लोकप्रसिद्धिरिति वादिनीं नायिकां सखी वक्ति -
-
 
अतिलज्जया त्वयैव प्रकटः प्रेयानकारि निभृतोऽपि ।
 

प्रासादमौलिरुपरि प्रसरन्त्या वैजयन्त्येव ॥ ७ ॥
 

 
अतीति । अतिलजया द्रुततरगतेनेति भावः । यत्र यत्र तदीयकटाक्षस्ततोऽपसर-

णादिति मावः । त्वयैव । एवं च नान्यस्यापराध इति भावः । निभृतोऽपि केनचिदन-

धिगतोऽपि प्रेयान्प्रकटः ख्यातोऽयमस्यामासक्त इत्यकारि । यदियमेनं दृष्ट्वातिलज्जां

नाटयति, तर्ह्ययमस्यामासक्त इति लोकैरधिगतम्, अतस्तवैवापराध इति भावः । उपरि

प्रसरन्त्या । एवं च दर्शनयोग्यत्वं द्योयते । पताकयेव । प्रासादस्य देवताद्यायतनस्य

मूर्धा । यद्वा तथाविधभोगाद्यभावेऽपि कथं लोकेऽस्मत्संगतिरभिव्यक्ता जातेति वादिनीं

सखी वक्ति । त्वयातिलजयैव । न तथाविधात्यन्तसंघटनेनेति भावः । उपरि प्रसरन्त्ये-

त्यनेनान्तःप्रविष्टत्वाभावप्रदर्शनेन रताद्यपरिचित्यानन्दराहित्यं नायिकायामावेद्यते । एवं च

बहिस्तथा प्रदर्शनीयं यथा न केनापि नायकीयपरिचितिलेशोऽपि ज्ञातुं शक्य इति भावः ॥

 
मध्यस्थावलम्बनेन संघटितवाग्भिः खलजयोऽपि सुशक इति कश्चिद्वक्ति
--
 
अन्योन्यग्रथनागुणयोगाद्भावः पदार्पणैर्बहुभिः ।
 

खलमपि तुदन्ति मेढीभूतं मध्यस्थमालम्ब्य ॥ ८ ॥
 

 
अन्योन्येति । अन्योन्यग्रथनागुणः परस्पराविरोधिघटनारूपो गुणः । पक्षे परस्पर-

बन्धनरज्जुः । तद्योगात् । गावो वाचः । पक्षे वृषभाः । पदार्पणैर्व्यवहारपददर्शनैः ।

पक्षे चरणविन्यासैः । मेढीभूतमाधाररूपत्वान्मध्यस्थम् । पक्षपात विरहेण विवादनिर्णाय-

कम् । पक्षे मध्यभूमिस्थितं मेढीभूतम् । 'पुंसि मेढिः खले दारु न्यस्तं यत्पशुबन्धने'

इत्यमरः । अर्थात्काष्ठमालम्ब्य दुर्जनमपि । अपिंना दुर्जयत्वं व्यज्यते । पक्षे धान्यमर्द-

नस्थानम् । व्यथयन्ति ॥
 

 
दुर्जनवाक्यमतिदुःसहमिति कश्चिद्वक्ति
 
--
 
अननुग्रहेण न तथा व्यथयति कटुकूजितैर्यथा पिशुनः ।

रुधिरादानादधिकं दुनोति कर्णे क्वणन्मशकः ॥ १९ ॥

 
अनन्विति । अननुग्रहेण विरोधेन । एवं च द्रव्याद्यपहारादिद्वारा दुःखदत्वं ध्वन्यते ॥

'अर्थग्रहेण' इत्यपि पाठः । पिशुनः खलः । न तथा व्यथयति । तथाविधदुःखजनको

नेत्यर्थः । यथाकटुकूजितैर्दुष्टवचनैः पीडयति। अत्र दृष्टान्तमाह-मशको रक्तग्रहणादधिकं
 
Sri Gurgeshwari Digital Foundation