This page has not been fully proofread.

त्सुका या तरुणी तस्याः स्तनरूपकलशसंबन्धवत् । एवं च ग्रीष्मे तरुणीस्तनयोरति-
शीतलत्वमावेद्यते । अत्र निबद्धमित्यनेन प्रबलग्रीष्मक्लेशितशैत्यस्य यथा दुःखनिवारण-
साहाय्यकारकं स्तनमण्डलं तथा मदनानलकदर्थितस्य ममापीदं भवत्विति ध्वन्यते ।
एवं च त्वदालिङ्गनोत्तरं मरणमपि सुखदं ममेति ध्वन्यते । तेन च राजादिभीतिशून्य-
त्वम् । अन्योऽपि केनचित्तिरस्कृतः प्रतीकारासमर्थ: कलशादि बनाद्ध्वा जले देहं त्यजतीति
लौकिकम् । यद्वा ग्रीष्मनिर्जितस्य शैत्यस्य यथा त्वत्कुचकलश एव शरणं तथा मन्मथ-
निर्जितस्य ममापीति भावः ॥
 
कथमतिचिरकालेऽपि संवृत्ते शयनागारान्न निर्गच्छसीति वादिनीं सखीं नायिका
वक्ति --
 
अलसयति गात्रमखिलं क्लेशं मोचयति लोचनं हरति ।
स्वाप इव प्रेयान्मम मोक्तुं न ददाति शयनीयम् ॥ ५४ ॥
 
अलसयतीति । गात्रं शरीरमलसयत्युत्थानादिव्यापारासमर्थं करोति । नानाविधसु-
रतेनेति भावः । पक्षे जृम्भादिजननेन विषयव्यापारासमर्थं करोति । अखिलं दुःखम् ।
पक्षे गृहव्यापारजन्यं श्रमम् । मोचयति । लोचनं हरति स्वाधीनतां नयति । स्वदर्शन-
मात्रप्रवणं करोतीति भावः । एवं च नायके सौन्दर्योत्कर्षशालित्वं ध्वन्यते । पक्षे प-
दार्थज्ञानशून्यत्वं करोति । स्वाप इव प्रेयान् । एवं च निवारणानर्हत्वं व्यज्यते । पक्षे
दुःखाभावसंपादकत्वेन प्रीतिविषयत्वम् । मम शयनीयं परित्यक्तुं न ददाति । एवं
चैतावत्कालं नायकनैकट्यादेव विलम्बो बहिरागमन इति न ममापराध इति भावः ।
प्रेयानिव स्वाप इति योजना वा । एवं च नायककार्यकारितया प्रेमविषयत्वं स्वापे द्यो-
त्यते । तेन चालस्यादि स्वापकार्यमेवेति संगुप्तरतिकत्वम् ॥
 
कश्चित्कांचिद्वक्ति--
 
अंसावलम्बि करघृतक करधृतकचमभिषेकार्द्रधवलनखरेखम् ।
धौताधरनयनं वपुरस्त्रमनङ्गस्य तव निशितम् ॥ ५५ ॥
 
अंसेति । स्कन्धावलम्बितकरेण धृताः। जलविमोचनार्थमिति भावः । कचा यस्मिन् ।
स्नानेनार्द्राः । धवलाः । लौहित्यापगमादिति भावः । नखरेखा नक्षक्षतानि यस्मिन् ।
धौताधरनयनम् । ताम्बूलरागापगमादिति भावः । कामशास्त्रे नेत्रचुम्बनस्य विधानात् ।
पक्षे निराकृतमालिन्यावयवम् । तव वपुरनङ्गस्य तीक्ष्णं शस्त्रम् । एवं चैकोपभोगजन्य-
जाड्यनिरसनेनान्यसंभोगसामर्थ्यवत्ता जातेति ध्वन्यते । वपुषि निशितानङ्गास्त्रतुल्यता-
प्रतिपादनेन त्वत्सङ्गासंपादनेन मत्प्राणहरणजन्यपापभागित्वं भविष्यति तवेति ध्वन्यते ॥
वेश्यासक्तं कंचन काचिदुपदिशति-
वारवामहशः
 
अविनिहितं विनिहितमिव युवसु स्वच्छेषु वारवामद्दशः
उपदर्शयन्ति हृदयं दर्पणबिम्बेषु वदनमिव ॥ ५६ ॥