This page has not been fully proofread.

ममाप्यवबोधने भीतिरित्यावेद्यते । अत एव माहात्म्येन प्रशस्तान्तःकरणतया स्निग्धया
प्रियया । चपलः । एवं च स्स्मिन्सापराधत्वमावेद्यते । बाष्पैः स्तिमितेनार्द्रेण तल्पे-
नावबोधितोऽस्मि । मानं ज्ञापितोऽस्मि । एवं च भीत्या मम तूष्णींभावं विज्ञाय मान-
ज्ञापनकरणेन कोमलहृदयत्वमावेद्यते ॥
 
कस्याश्चित्किंचित्संगतिशालिनं कंचन काचिदन्योक्त्या वक्ति--
 
अयि शब्दमात्रसाम्यादास्वादितशर्करस्य तव पथिक ।
स्वल्पो रसनाछेदः पुरतो जनहास्यता महती ॥ ५१ ॥
 
अयीति । अयि पथिक । एवं चात्र चिरानवस्थित्या यथार्थज्ञानशून्यत्वं ध्वन्यते ।
शब्दमात्रसाम्यात् । शर्करेति । पक्षे नायिकेति । शब्दमात्रेत्यनेनार्थदृष्टिविधुरत्वं
व्यज्यते । आखास्वादिता, न तूपभुक्ता शर्करा सिकता येन तस्य । एवं चाधुनापि विचार्य
चरितव्यमिति ध्वन्यते । रसनाछेदः स्वल्पः पुरतोऽग्रे । 'इयं च तेऽन्या पुरतो विडम्बना'
इतिवदत्र समाधिः । महती। एवं चासत्यत्वं व्यज्यते । जनस्य । एवं च निवारणानर्हत्वम् ।
हास्यता भवित्री । एवं च तस्याः कठिनतया न संगतिश्चिरावस्थायिनीति नैतावन्मात्रम्,
अपि तु कथमत्यन्तानभिज्ञ इति लोकोपहासो भावीति व्यज्यते । यद्वा स्वनामैक्याद-
न्याङ्गनागृहीतदर्शनं काचिद्वक्ति । शब्दमात्रसाम्यम् । न मन्निष्ठगुणादेरिति भावः । रस-
नाच्छेद आखास्वादविच्छेदः । नीरसेति यावत् । भाविगुणशून्यत्वज्ञानेनेति भावः । एताव-
न्मात्रं न, किंतु जनहास्यता । एवं च तस्याः पुंश्चलीत्वेन प्रसिद्धिः, न ममेति व्यज्यते ॥
 
सपत्नीदुःखसंतप्तां काचित्समाधत्ते--
 
अभिनवयौवनदुर्जयविपक्षजनहन्यमानमानापि ।
सूनोः पितृप्रियत्वाद्विबिभर्ति सुभगामदं गृहिणी ॥ २ ॥
 
अभिनवेति । अभिनवयौवनेन । अभिनवत्वमप्रसूतत्वादिति भावः । दुःखेन जेतुम-
शक्यः । यौवनसंपादनस्य दुष्करत्वादिति भावः । यो विपक्षजनः । विपक्षपदेन दुः-
खजननस्वभाववत्त्वं जनपदेन समुदायवत्तया प्रतीकारानर्हत्वं ध्वन्यते । तेन हन्यमानः ।
एवं च प्रात्यहिकेनासयत्वं द्योत्यते । मानो यस्याः । सापि । एवं च यत्र प्रतिष्ठामात्र-
मपि गतं तत्र का वार्ता रतादीनामिति भावः । गृहिणी प्रथमस्त्री पुत्रस्य पितृप्रियत्वा •
त्सौभाग्यशालिनीनां गर्वे बिभर्ति । एवं च सकलसदनाधिपतिप्रायपुत्रवत्तया त्वया न
किंचिदपि सपत्न्यवमाननं गणनीयमिति व्यज्यते ॥
 
कश्चित्स्नानोद्यतकामिनीकुचकलशमवलोक्य व्यञ्जनया त्वत्संगमकामोऽहमिति वक्ति -
 
अपमानितमिव संप्रति गुरुणा ग्रीष्मेण दुर्बलं शैत्यम् ।
स्नानोत्सुकतरुणीस्तन कलशनिबद्धं पयो विशति ॥ १३ ॥
 
अपमानितमिति । गुरुंणा प्रबलेन ग्रीष्मेणापमानितं तिरस्कृतम् । एवं च जलप्रवे-
शकरणमुचितमिति व्यज्यते । दुर्बलम् । एवं च प्रतीकारासामर्थ्य ध्वन्यते । स्नानो-