This page has not been fully proofread.

नायिकासक्तितिं नायके नायिकासखी वक्ति--
 
अगणितगुणेन सुन्दर कृत्वा चारित्रमप्युदासीनम् ।
भवतानन्यगतिः सा विहितावर्तेन तरणिरिव ॥ ४७ ॥
 
अगणितेति । हे सुन्दर । एवं च कामिनीस्पृहणीयत्वं ध्वन्यते असंख्यातचातु.-
र्यादिगुणेन । एवं च युक्तमेव ते नायिकावशीकरणसामर्थ्यमिति द्योत्यते । पक्षेऽनादृतो
गुणो बन्धनरज्जुर्येन । भवता चरित्रमेव चारित्रं पातिव्रत्यं तदप्युदासीनं कृत्वा तिर-
स्कृत्य । अपिना तिरस्कारानर्हत्वं ध्वन्यते । पक्षे चकारबहिर्भावेनारित्रं के निपातनम् ।
आवर्तेन तरणिरिव सानन्यगतिः । नास्त्यन्या, त्वदतिरिक्तेत्यर्थः, गतिर्यस्याः । पक्षे-
ऽन्यत्र गमनाभाववती । विहिता । एवं चानुग्राह्या सेति व्यज्यते ॥
 
पराङ्गनास्थापितोत्तरीयतया वसनान्तरहीनतया सलज्जं कंचन कश्चिद्वक्ति--
 
अनुरक्तरामया पुनरागतये स्थापितोत्तरीयस्य ।
अप्येकवाससस्तव सर्वयुवभ्योऽधिका शोभा ॥ ४८ ॥
 
अनुरक्तेति । अनुरक्ताङ्गनया पुनरागमनाय स्थापितोत्तरीयवसनस्यैकवाससोऽपि ।
दारिद्र्यादिति भावः । तव सकलभाग्यशालितरुणेभ्यः शोभाधिका । एवं चैतादृशदयि-
तानुरागे दारिद्र्यदुःखमकिंचित्करम् । तदननुरागे च यौवनसंपत्ती अकिंचित्करे इति
व्यज्यते ॥
 
कश्चित्स्वस्य सखायं वक्ति--
 
अर्धः प्राणित्येको मृत इतरो मे विधुंतुदस्येव ।
सुधयेव प्रियया पथि संगत्यालिङ्गितार्धस्य ॥ ४९ ॥
 
अर्ध इति । पथि मार्गे संगत्या प्राचीनसंबन्धेन । यद्वा मार्गविषयकसंबन्धेन । एवं च
दैववशसंपन्नमेतदिति ध्वन्यते । प्रिययालिङ्गितार्धस्य । प्रियासंबन्धवदर्स्येत्यर्थः । आलि-
ङ्गनपदेनैकाङ्गसंपर्केऽपि सर्वाङ्गीणानन्दतुल्यानन्दः संवृत्त इति व्यज्यते । मे सुधया वि-
धुंतुदस्येवैकोऽर्धो विषमांश: । 'पुंस्यर्धोऽर्धेधंमेंऽशके' इत्यमरः । एवं च राहोरसमां-
शमुण्डरूपस्योपमानता संगच्छते । प्राणिति । इतरो मृत एव । एवं च नान्यथा शङ्कनी-
यमिति भावः । एवं च प्राप्ताया अपि सुधाया दुर्दैवान्न संभोगो राहोस्तथा प्रियाया
ममेति ध्वन्यते । तेन च नायिकाङ्गसंबन्धानुभववत एवाङ्गस्य सार्थक्यम्, नापराणाम-
ङ्गानामिति । तेन च न यस्य नायिकाङ्गस्पर्शसुखानुभवस्तज्जीवनमत्यन्तानर्थकमिति ॥
 
कठिनहृदयापि कोमलहृदया मन्नायिकेति कश्चिद्वक्ति--
 
अवधीरितोऽपि निद्रामिषेण माहात्म्यमसृणया प्रियया ।
अवबोधितोऽस्मि चपलो बाष्पस्तिमितेन तल्पेन ॥ ० ॥
 
अवधीरितोऽपीति । निद्राव्याजेनावज्ञातोऽपि । मानवशादिति भावः । एवं च