This page has not been fully proofread.

३६
 
काव्यमाला ।
 
नायिकासक्ति नायके नायिकासखी वक्ति-
-
 
अगणितगुणेन सुन्दर कृत्वा चारित्रमप्युदासीनम् ।

भवतानन्यगतिः सा विहितावर्तेन तरणिरिव ॥ ४७ ॥

 
अगणितेति । हे सुन्दर । एवं च कामिनीस्पृहणीयत्वं ध्वन्यते असंख्यातचातु.

र्यादिगुणेन । एवं च युक्तमेव ते नायिकावशीकरणसामर्थ्यमिति द्योत्यते । पक्षेऽनादृतो

गुणो बन्धनरज्जुर्येन । भवता चरित्रमेव चारित्रं पातिव्रत्यं तदप्युदासीनं कृत्वा तिर-

स्कृत्य । अपिना तिरस्कारानर्हत्वं ध्वन्यते । पक्षे चकारबहिर्भावेनारित्रं के निपातनम् ।

आवर्तेन तरणिरिव सानन्यगतिः । नास्त्यन्या, वदतिरिक्तत्यर्थः, गतिर्यस्याः । पक्षे-

ऽन्यत्र गमनाभाववती । विहिता । एवं चानुग्राह्या सेति व्यज्यते ॥
 

 

 
पराङ्गनास्थापितोत्तरीयतया वसनान्तरहीनतया सलजं कंचन कश्चिद्वक्ति
--
 
अनुरक्तरामया पुनरागतये स्थापितोत्तरीयस्य ।
 

अप्येकवाससस्तव सर्वयुवभ्योऽधिका शोभा ॥ ४८ ॥
 

 
अनुरक्तेति । अनुरक्ताङ्गनया पुनरागमनाय स्थापितोत्तरीयवसनस्यैकवाससोऽपि ।

दारिद्र्यादिति भावः । तव सकलभाग्यशालितरुणेभ्यः शोभाधिका । एवं चैतादृशदयि-

तानुरागे दारिद्र्यदुःखमकिंचित्करम् । तदननुरागे च यौवनसंपत्ती अकिंचित्करे इति

व्यज्यते ॥
 

 
कश्चित्स्वस्य सखायं वक्ति-
-
 
अर्धः प्राणित्येको मृत इतरो मे विधुंतुदस्येव ।

सुधयेव प्रियया पथि संगत्यालिङ्गितार्धस्य ॥ ४९ ॥
 

 
अर्ध इति । पथि मार्गे संगत्या प्राचीनसंबन्धेन । यद्वा मार्गविषयकसंबन्धेन । एवं च

दैववशसंपन्नमेतदिति ध्वन्यते । प्रिययालिङ्गितार्धस्य । प्रियासंबन्धवदर्घस्येत्यर्थः । आलि-

ङ्गनपदेनैकाङ्गसंपर्केऽपि सर्वाङ्गीणानन्दतुल्यानन्दः संवृत्त इति व्यज्यते । मे सुधया वि-

धुंतुदस्येवैकोऽर्धो विषमांश: । 'पुंस्यर्धोऽर्धे सऽशके' इत्यमरः । एवं च राहोरसमां-

शमुण्डरूपस्योपमानता संगच्छते । प्राणिति । इतरो मृत एव । एवं च नान्यथा शङ्कनी-

यमिति भावः । एवं च प्राप्ताया अपि सुधाया दुर्दैवान्न संभोगो राहोस्तथा प्रियाया

ममेति ध्वन्यते । तेन च नायिकाङ्गसंबन्धानुभववत एवाङ्गस्य सार्थक्यम्, नापराणाम-

ङ्गानामिति । तेन च न यस्य नायिकाङ्गस्पर्शसुखानुभवस्तजीवनमत्यन्तानर्थकमिति ॥

 
कठिनहृदयापि कोमलहृदया मन्नायिकेति कश्चिद्वक्ति-
-
 
अवधीरितोऽपि निद्रामिषेण माहात्म्यमसृणया प्रियया ।

अवबोधितोऽस्मि चपलो बाष्पस्तिमितेन तल्पेन ॥ १० ॥

 
अवधीरितोऽपीति । निद्राव्याजेनावज्ञातोऽपि । मानवशादिति भावः । एवं च
 
DE
 
Sri Gurgeshwori Digital Fundation