This page has not been fully proofread.

आर्यासप्तशती ।
 
३९
 
कासु स्वनायिकाभावनयैवाभिलषितावाप्तिरिति भावः । एवं च पराङ्गनासु जडत्वं ध्व-

न्यते । यद्वा देवतायां देवताध्यानाकरणं जडप्रतिमासु च देवताध्यानकरणमिति यथा

जनस्य स्वभावस्तथा नायकस्याप्यन्याङ्गनाखासक्तिसंपादनमिति स्वभाव इति ध्वन्यते ।

तेन च नैतस्यां गुणराहित्यमाशङ्कनीयमिति । 'आप्नोमि' इति पाठेऽन्याङ्गनासक्तिस्त-

वानुचितेति वादिनीं नायिकासखीं नायको वक्ति ॥
 

 
गर्वशालिनं नायकं नायिकासख्युपदिशति-

अनुपेत्य नीचभावं बालक परितो गभीरमधुरस्य ।
 

 
अस्याः प्रेम्णः पात्रं न भवसि सरितो रसस्येव ॥ ४४ ॥

अन्विति । बालक अपरिपक्कबुद्धे । नीचभावं गर्वशून्यत्वमनुपेत्याकृत्वा समन्ताद्ग-

भीरं बहुपरिमाणं मधुरं सुखदम् । पक्षेऽगाधं मधुररसवत् । परित इत्यनेन सर्वत्र गा-

म्भीर्यमाधुर्यशालित्वं तेन चैतादृशस्य प्रेम्णो दुर्लभत्वं द्योत्यते । अस्याः प्रेम्णः पात्रममत्रम् ।

पक्षे तीरयोरन्तरम् । सरितो रसस्येव जलस्येव न भवसि । एवं च गर्ने विहायैवास्याः

प्रेम्णो भाजनं भवान्भवत्विति व्यज्यते । रसस्येवेत्यनेन प्रेम्णि रससंभृतत्वमावेद्यते ॥

सखी नायिकामन्योक्त्या स्तौति-

अधिवासनमाधेयं गुणमार्गमपेक्षते न च ग्रथनाम् ।
 

 
कलयति युवजनमौलि केतककलिका स्वरूपेण ॥ ४५ ॥

अधीति । अधिवासनं संस्कारम् । यथा पुष्पादिभिस्तैलादेः । आधेयमौपाधिकं गु

णमार्गम् । यथा मुक्ताफलादे रन्ध्रादि । प्रथनाम् । यथा मालादेः । न चापेक्षते । पक्षे

स्वतः पद्मिनीत्वेन न सौगन्ध्यादिसंस्कारापेक्षा । स्वाभाविकगुणवत्त्वान्नौपाधिकगुणगवे-

षणापेक्षा । मार्गणं मार्ग इति व्युत्पत्तेः । खतो नायकवशीकरणसामर्थ्यान्न दूत्यादि-

घटनापेक्षा । केतककलिका स्वरूपमात्रेण युवजनमौलिं कलयति । मौलिभूषणरूपा

भवतीति भावः

। पक्षे सर्वयुवभिः प्रणतिपुरःसरं प्रार्थ्यत इति भावः । एवं चात्र

स्वकीयपरकीयादिनायिकाधिक्यं नायिकायामावेद्यते ॥
 

 
नायिका स्वनायकसङ्गविद्वेषकारिणी वृत्तेति प्रतिपादनेन नायकात्यन्तासक्ति तस्या-

मुत्पादयितुं नायिकासखी नायकं वक्ति-

अपनीतनिखिलतापां सुभग स्वकरेण विनिहितां भवता ।

पतिशयनवारपालिज्वरौषधं वहति सा मालाम् ॥ ४६ ॥

अपनीतेति । दूरीकृतसकलदुःखाम् । पक्षे तापो नानाविधज्वरः । सुभग भवता

स्वकरेण, न तु दूत्यादिद्वारा । विनिहितां मालाम् । पतिः, न तु प्रियः । तच्छयनरूपो

यो वारपालिज्वरश्चातुर्थिकादिस्तदौषधरूपां वहति । केवलं त्वद्दत्तमालयैव तद्दिवसीय-

त्वद्विरहदुःखनिरासस्तस्या इति भावः । एवं चैतादृशनायिकानुरागः सुदुर्लभोऽपि ते

सुलभ इति धन्यस्त्वमसीति योयते ॥
 
Sri Gurgeshwari Digital Eumlation