2023-03-13 16:04:23 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
कश्चित्कांश्चिन्निन्दति--
अबुधा अजङ्गमा अपि कयापि गत्या परं पदमवाप्ताः ।
मन्त्रिण इति कीर्त्यन्ते नयबलगुटिका इव जनेन ॥ ४१ ॥
अबुधा इति । अबुधा ज्ञानशून्याः पण्डितभिन्ना वा । अचेतनत्वादिति भावः ।
अजङ्गमा गतिशून्याः । पक्ष इतस्ततः प्रेषणानर्हाः । कयापि गत्या चालनविशेषेण । पक्षे
दैववशादित्यर्थः । परं पदमाद्यपङ्क्तिगृहम् । पक्ष उत्कृष्टस्थानम् । अवाप्ताः । नयबलस्य
बुद्धिबलस्य गुटिका इव जनेन । एवं च वास्तवज्ञानशून्यत्वं ध्वन्यते । मन्त्रिण इति
कीर्त्यन्ते । एवं च यथा पदातिसंज्ञकगुटिका राजपङ्क्तिसदनमासाद्यामात्यव्यवहारभा-
गिनी भवति, तद्वदेतेऽकिंचित्करा अपि पदविशेषावाप्त्यामात्यपदवीभागिन इति
व्यज्यते ॥
अत्यन्ताभिमानशालिनी मत्सखीति वादिनीं सपत्नीसखीं नायिकासखी वक्ति--
अतिशीलशीतलतया लोकेषु सखी मृदुप्रतापा नः ।
क्षणवाम्यदह्यमानः प्रतापमस्याः प्रियो वेद ॥ ४२ ॥
अतीति । लोकेऽत्यन्तशीलस्य स्वभावस्य शीतलतया । सौम्यतयेत्यर्थः । नः सखी
मृदुप्रतापा । एवं च लोके प्रतापदर्शनमनर्थकमिति भावः । यद्वा मृदुप्रतापेति स्वरवि-
शेषरूपकाक्वा न मृदुप्रतापेत्यर्थः । एतदेवाह--अस्या मत्सख्याः क्षणवाम्येन क्षणिककौ-
टिल्येन । एवं च चिरकालीनवाम्यमसंभवतीति ध्वन्यते । यद्वा क्षण उत्सवे यद्वाम्यम् ।
प्रणयकोप इति यावत् । तेन । एवं च वास्तवमहाकोपे को वेद किं भावीति व्यज्यते ।
दह्यमानः प्रियः प्रतापं तेजोविशेषम्, अथ च प्रकृष्टसंतापं जानाति । एवं च यत्र
यद्विधानमुपयुक्तं तत्र तदेवेयं विदधातीति द्योत्यते । यद्वा त्वत्सखी मृदुप्रतापेति
वादिनीं काचिद्वक्ति । एवं च नः सखी लोके मृदुप्रतापा नायकं प्रत्यभिमानशालिनी,
त्वत्सखी तु नायकं प्रत्यकिंचित्करा लोके तु कोपनेति द्योत्यते । तेन स्वसख्यामाधि-
क्यम् । यद्वा पूर्वोत्तरार्धाभ्यामुभयोक्ती ॥
यदीयमुत्कृष्टगुणा तर्ह्येतदीयनायकः कथमन्यानुरक्त इति वादिनीं कांचिन्नायिका-
सखी वक्ति--
अन्यास्वपि गृहिणीति ध्यायन्नभिलषितमाप्नोति ।
पश्यन्पाषाणमयीः प्रतिमा इव देवतात्वेन ॥ ४३ ॥
अन्याखिति । अन्यास्वप्यन्याङ्गनास्वपि स्वगृहिणीति ध्यायन्नेव । स्वनायिकाभावनां
कुर्वन्नेवेत्यर्थः । एवं च स्वीयाङ्गनाभावनानर्हास्वप्यन्याङ्गनासु तद्भावनासंपादनप्रतिपाद-
नान्नायिकायां रूपादिगुणशालित्वमावेद्यते । अभिलषितमानन्दम् । पक्ष इच्छाविषयी-
भूतमर्थम् । आप्नोति । पाषाणमयीः प्रस्तरविकाररूपाः प्रतिमा देवतात्वेन पश्यन्निव ।
एवं च यथा पाषाणप्रतिमासु देवताभावनया जनस्याभिलषितावाप्तिस्तथैवान्यासु नायि-