This page has not been fully proofread.

कयाचन विलोकितः कश्चित्तस्या विलोकनसुखं स्वस्य सखायं वक्ति--
 
अस्याः कररुहखण्डित[^१]काण्डपटप्रकटनिर्गता दृष्टिः ।
पटविगलितनिष्कलुषा स्वदते पीयूषधारेव ॥ ३७ ॥
 
अस्या इति । अस्या नखसच्छिद्रीकृतकाण्डपटस्पष्टनिर्गता दृष्टिः । वसनविगलितात
एव कालुष्यरहिता पीयूषधारेव । स्वदते । एवं च दृशि न केवलं संतापापनोदकत्वम्,
अपि तु प्राणप्रदत्वमिति ध्वन्यते ॥
 
पतिगृहगमनार्हो कांचित्काचित्कस्याश्चिद्वार्तापुरःसरं वक्ति--

अस्याः पतिगृहगमने करोति माताश्रुपिच्छिलां पदवीम् ।
गुणगर्विता पुनरसौ हसति शनैः शुष्करुदितमुखी ॥ ३८ ॥
 
अस्या इति । अस्याः पतिगृहगमने । गमनं प्राथमिकम् । माता । एवं च वात्सल्यं
व्यज्यते । अश्रुभिः पिच्छिलां पदवीं करोति । पिच्छिलामित्यनेनाश्रुबाहुल्यं द्योत्यते ।
गुणगर्विता पुनरसौ शुष्करुदितमुखी । अश्रूणामभावादिति भावः । शनैर्हसति । एवं च
यथेयं गच्छति तथैव त्वया गन्तव्यमिति द्योत्यते । कस्याश्चिद्वार्ता काचिद्वक्तीति वा ॥
 
अङ्के निवेक्ष्य कूणितदृशः शनैरकरुणेति शंसन्त्याः ।

मोक्ष्यामि वेणिबन्धं कदा नखैर्गन्धतैलाक्तैः ॥ ३९ ॥
 
३३

 
अङ्क इति । अङ्के निवेश्य कूणिता संकोचिता दृग्यया । चिरबद्धवेणीबन्धविस्रंसन-
जन्यदुःखवशात्कूणितत्वम् । अत एव अकरुण शनैरिति शंसन्त्याः । यद्वा चिरप्रवासि-
त्वेन अकरुणेति संबुद्धिः । अकरुण इति शनैः शंसन्त्या इति वा । नायके प्रवासिनि न
केशसंस्कार इति सतीसंप्रदायः । गन्धतैलाक्तैर्नखैः कदा वेणीबन्धं मोक्ष्यामि । पथिका-
शंसनमेतत् ॥
 
कथमकृतभूषणाहमागमिष्यामीति वादिनीं दूती वक्ति--

अलमनलंकृतिसुभगे भूषणमुपहासविषयमितरांरासाम् ।
कुरुषे वनस्पतिलता प्रसूनमिव वन्ध्यवल्लीनाम् ॥ ४० ॥
 
अलमिति । यद्वा सर्वासामन्यासां भूषणम्, न मध्ह्यमिति खिन्नां सखी समाधत्ते ।
अलमत्यर्थमलंकाराभावेन सौभाग्यशालिनि । इतरासां भूषणम् । वन्ध्यवल्लीनां पुष्पव
स्
-
त्त्
वेऽपि फलाजनकानां प्रसूनमिव वनस्पतिलता पुष्पं विना फलजनिका । 'वानस्पत्यः
फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः' । त्वं निन्दाविषयं कुरुषे । एवं च नालंकरणमात्रं
सौभाग्यसंपादकम्, अपि तु दयितवश्यतासंपादनसामर्थ्यम् । तच्च तवैवास्तीति विभू-
षणकरणाय विलम्बो न विधेयः । खेदो वा न मध्ह्यमस्ति विभूषणमिति ध्वन्यते ॥
---------------------------------------------------------------------------------
[^१]. तिरस्करिणी. 'कनात' इति भाषा.