This page has not been fully proofread.

३२
 
काव्यमाला ।
 
नायिकासखी क्वचिद्गच्छन्तं नायकं प्रति नायिकासक्ति वक्ति-
अकरुण कातरमनसो दर्शितनीरा निरन्तरालेयम् ।
त्वामनु धावति विमुखं गङ्गेव भगीरथं दृष्टिः ॥ ३४ ॥
अकरुणेति । यद्वा क्रुधा गच्छन्तं नायकं नायिकासखी वक्ति । अकरुण करुणाशून्य ।
यत ईदृशीमप्येनां परित्यज्य गच्छसीति भावः । कातरं मनो यस्याः । कातरपदेन
कदायमागमिष्यतीति चिन्तातिशयो द्योयते । दशितं नीरमश्रु यया । दशितमित्यनेन
विघ्नसूचनमिति कश्चित् । प्रकटमित्यर्थो ज्यायान् । पक्षे प्रकटितजला । निरन्तराला
निर्गतावकाशा । सर्वत्र विद्यमानेत्यर्थः । एवं च विशालत्वं द्योत्यते । तेन च शोभातिश-
यो द्योत्यते । यद्वा कश्चिह्रक्ष्यतीति भियतस्ततोऽवलोकनशालित्वम् । यद्वा निर्गतावकाशा ।
अविच्छिन्नेत्यर्थः । एवं च लोकभीतिशून्यत्वेनात्यन्तासक्तिरावेद्यते । पक्ष निर्गताकाशा ।
आकाशाद्भुवि गङ्गागमनादिति भावः । इयं दृष्टिर्भगीरथं गङ्गेव विमुखं पश्चादनवलोकन-
कारिणम् । अज्ञानात्क्रोधाद्वेति भावः । पक्षेऽग्रगमनकारित्वादिति भावः । एवं च ता-
पापनोदिकायास्तापकरणमनुचितं तवेति ध्वन्यते । यद्वा नायकविदेशागमन कालीनना-
यिकासखीवाक्यमेतत् । नायिकेयं परकीया ॥
अप्रकटितमानां नायिकां नायको वक्ति-
अन्तःकलुषस्तम्भितरसया भृङ्गारनालयेव मम ।
 
अप्युन्मुखस्य विहिता वरवर्णिनि न त्वया तृप्तिः ॥ ३९ ॥
अन्तरिति । अन्तःकलुषेणान्तरक्रोधादिना स्तम्भितोऽप्रकटितो रसः शृङ्गारादि-
र्यया । एवं च बाह्यक्रोधापेक्षयान्तरक्रोधस्यातिदुष्टत्वं द्योयते । पक्ष आभ्यन्तरपङ्का-
दिना स्तम्भितो निर्गमनायोग्यो रसो जलं यस्याः । भृङ्गारनालयेव । 'भृङ्गारः कनका-
लुका' । त्वया वरवर्णिनि । एवं चैतादृक्कार्यकरणमनुचितं तवेति ध्वन्यते । पक्षे शोभ-
नवर्णा । उन्मुखस्यापि । पक्ष ऊर्ध्वमुखस्यापि मम तृप्तिर्न विहिता । एवं च त्वं मम
जीवनदान निदानरूपेति ध्वन्यते ॥
 
कथमनेन नायकेन ममास्ति संगतिरिति लोके प्रसिद्धिरिति वादिनीं नायिकामन्यो-
क्त्या सखी वक्ति -
 
अयि सरले सरलतरोर्मदमुदितद्विपकपोलपालेश्च ।
अन्योन्यमुग्धगन्धव्यतिहारः कषणमाचष्टे ॥ ३६ ॥
अयीति । अयि सरले । एवं चैतादृशसंदेहवत्ता तव युक्तैवेति ध्यन्यते । सरलतरोः ।
सरलपदेन कषणयोग्यत्वं धूर्तताशून्यत्वं च द्योत्यते । मदेन दानेन मन्मथेन च मुदितो
यो द्वाभ्यां पिबतीति द्विपो गजस्तस्य कपोलपालेश्च । मदमुदित इत्यनेन जनभीतिशू-
न्यत्वं ध्वन्यते । अन्योन्यं मुग्धस्य सुन्दरस्य गन्धस्य । पक्षे वासनायाः । अनुरागस्ये-
त्यर्थः । व्यतिहारो विनिमयः । कषणम् । पक्षे योगम् । आचष्टे । एवं च परस्परानु-
राग एव परस्परसंबन्धं वक्तीति भावः ॥
 
Sri Gurgeshwari Digital Foundation