This page has not been fully proofread.

वक्तव्यमिति भावः । श्वपचाश्चाण्डालास्तेषां घटसंबन्धिकर्पराणामङ्कश्चिह्नं यस्याः । सू-
क्ष्मस्यापि रसालस्यैतद्दोहदेनाचिरादेव फलोत्पत्तिर्भवतीति दोहदवित्प्रसिद्धिः । एवं च
चाण्डालसंबन्धादनुपयुक्तत्वमावेद्यते । पक्षे दुर्जनसङ्गशालित्वम् । फलितापि निश्चितं
विफलैव । समीचीनजनोपभोगानर्हत्वादिति भावः ॥
 
प्रतिष्ठापुरःसरं स्वल्पमपि जीवनं समीचीनमिति कश्चिद्वक्ति--
 
अञ्जलिरकारि लोकैर्म्लानिमनाप्त्वैव रञ्जिता जगती ।
संध्याया इव वसतिः स्वल्पापि सखे सुखायैव ॥ ३१ ॥
 
अञ्जलिरिति । लोकैरञ्जलिरकारि । अर्घदानार्थमिति भावः । पक्षेऽञ्जलिकरणेन
लोक आज्ञाकारित्वं ध्वन्यते । म्लानिर्निस्तेजस्कत्वम् । पक्षेऽसामर्थ्यम् । जगती रञ्जिता-
रक्ततां नीता । पक्षेऽनुरागवती कृता । एवं च लोकस्यानुद्वेगदायित्वं ध्वन्यते । संध्याया
इव स्वल्पापि वसतिरवस्थितिः सुखायैव । न दुःखायेत्यर्थः । संध्यासमयस्थितेरचिराव-
स्थायित्वादिति भावः । एवं चैतद्विलक्षणजीवनान्मरणमेव वरमिति द्योलते ॥
 
नायिका नायकं वक्ति--
 
अगृहीतानुनयां मामुपेक्ष्य सख्यो गता बतैकाहम् ।
प्रसभं करोषि मयि चेत्त्वदुपरि वपुरद्य मोक्ष्यामि ॥ ३२ ॥
 
अगृहीतेति । अनङ्गीकृतानुनयां मामुपेक्ष्य । मानस्यासाध्यत्वबुद्ध्येति भावः । एवं च
तासामेतादृक्करणमनुचितमिति व्यज्यते । सख्यः । सुखदुःखनिरूपणार्हा इति भावः ।
गताः । एवं च परावृत्त्यनर्हत्वं व्यज्यते । बत खेदे हर्षे च । अहमेकाकिनी । चेद्यदि
मयि प्रसभं बलात्कारं करोषि तर्ह्यद्याधुनैव । एवं चोत्कण्ठितत्वं ध्वन्यते । त्वदुपरि
शरीरं पातयिष्ये । एवं च सखीकृतानुनयस्य मयोपेक्षितत्वात्त्वयावश्यं बलात्कार:
प्रदर्शनीयः । ततश्च यथेच्छं मयापि विपरीतरतादिना क्रीडितव्यमिति व्यज्यते । अथ च
मत्सख्योऽत्र न सन्तीति मत्वा यदि बलात्कारं करोषि तर्ह्यहं प्राणान्परित्यज इति व्यज्यते ॥
 
सखी कंचन नायकं स्वनायिकाधीनं कर्तुं तस्या गुणशालित्वं भङ्ग्यन्तरेण वक्ति--
 
अस्थिररागः कितवो मानी चपलो विदूषकस्त्वमसि ।
मम सख्याः पतसि करे पश्यामि यथा ऋजुर्भवसि ॥ ३३ ॥
 
अस्थिरेति । यद्वान्यनायिकासु स्वनायिकायाश्चातुरीं प्रकटयन्ती सखी वक्ति । चञ्च-
लानुरागः । धूर्तः । अभिमानी । चाञ्चल्यशाली । विदूषकः । 'विकृताङ्गवचोवेषैर्हास्य-
कारी विदूषकः' । त्वमसि । अस्थिरराग इत्यनेन मैत्त्र्यनर्हत्वम्, कितव इत्यनेन प्रतारणा-
निपुणत्वम्, मानीत्यनेन गर्वशालित्वेन प्रतिक्षणसमाधेयत्वम्, विदूषक इत्यनेनानेकचेष्टा-
शालित्वं ध्वन्यते । मम सख्याः करे पतसि यथर्जुर्भवसि तथा पश्यामि । एवं च मत्सखी-
गुणासक्तेन त्वया सर्वमपीदं परित्याज्यमिति भावः । यद्वैतादृशी मत्सखी यदेतादृशं नायकं
स्वाधीनताभाजनं कर्तुं विजानातीति भवतीभ्यो मत्सखी समधिकतरेति भावः ॥