This page has not been fully proofread.

आर्यासप्तशती ।
 

 
३१
 

 
वक्तव्यमिति भावः । श्वपचाश्चाण्डालास्तेषां घटसंबन्धिकर्पराणाङ्कश्चिहं यस्याः । सू

क्ष्मस्यापि रसालस्यैतद्दोहदेनाचिरादेव फलोत्पत्तिर्भवतीति दोहदवित्प्रसिद्धिः । एवं च

चाण्डालसंबन्धादनुपयुक्तत्वमावेद्यते । पक्षे दुर्जनसङ्गशालित्वम् । फलितापि निश्चितं

विफलैव । समीचीनजनोपभोगानर्हत्वादिति भावः ॥
 

 
प्रतिष्ठापुरःसरं स्वल्पमपि जीवनं समीचीनमिति कश्चिद्वक्ति-

अञ्जलिरकारि लोकैम्लनिमनात्वैव रञ्जिता जगती ।

संध्याया इव वसतिः स्वल्पापि सखे सुखायैव ॥ ३१ ॥

अञ्जलिरिति । लोकैरञ्जलिरकारि । अर्घदानार्थमिति भावः । पक्षेऽञ्जलिकरणेन

लोक आज्ञाकारित्वं ध्वन्यते । म्लानिर्निस्तेजस्कत्वम् । पक्षेऽसामर्थ्यम् । जगती रञ्जिता-

रक्ततां नीता । पक्षेऽनुरागवती कृता । एवं च लोकस्यानुद्वेगदायित्वं ध्वन्यते । संध्याया

इव स्वल्पापि वसतिरवस्थितिः सुखायैव । न दुःखायेत्यर्थः । संध्यासमयस्थितेरचिराव-

स्थायित्वादिति भावः । एवं चैतद्विलक्षणजीवनान्मरणमेव वरमिति द्योलते ॥

नायिका नायकं वक्ति-

-
 

 
अगृहीतानुनयां मामुपेक्ष्य सख्यो गता बतैकाहम् ।
 

 
प्रसभं करोषि मयि चेत्त्वदुपरि वपुरद्य मोक्ष्यामि ॥ ३२ ॥

अगृहीतेति । अनङ्गीकृतानुनयां मामुपेक्ष्य । मानस्यासाध्यत्वबुद्ध्येति भावः । एवं च

तासामेतादृक्करणमनुचितमिति व्यज्यते । सख्यः । सुखदुःखनिरूपणार्हा इति भावः ।

गताः । एवं च परावृत्त्यनर्हत्वं व्यज्यते । बत खेदे हर्षे च । अहमेकाकिनी । चेद्यदि

मयि प्रसभं बलात्कारं करोषि तर्ह्यद्याधुनैव । एवं चोत्कण्ठितत्वं ध्वन्यते । त्वदुपरि

शरीरं पातयिष्ये । एवं च सखीकृतानुनयस्य मयोपेक्षितत्वात्त्वयावश्यं बलात्कार:

प्रदर्शनीयः । ततश्च यथेच्छं मयापि विपरीतरतादिना क्रीडितव्यमिति व्यज्यते । अथ च

मत्सख्योऽत्र न सन्तीति मत्वा यदि बलात्कारं करोषि तर्ह्यहं प्राणान्परित्यज इति व्यज्यते ॥

सखी कंचन नायकं स्वनायिकाधीनं कर्तुं तस्या गुणशालित्वं भङ्गयन्तरेण वक्ति-

अस्थिररागः कितवो मानी चपलो विदूषकस्त्वमसि ।
 

 
मम सख्याः पतसि करे पश्यामि यथा ऋजुर्भवसि ॥ ३३ ॥
 

 
अस्थिरेति । यद्वान्यनायिकासु स्वनायिकायाश्चातुरीं प्रकटयन्ती सखी वक्ति । चश्च-

लानुरागः । धूर्तः । अभिमानी । चाञ्चल्यशाली । विदूषकः । 'विकृताङ्गव चोवेषैर्हास्य-

कारी विदूषकः' । त्वमसि । अस्थिरराग इत्यनेन मैत्रय नर्हत्वम्, कितव इत्यनेन प्रतारणा-

निपुणत्वम्, मानीत्यनेन गर्वशालित्वेन प्रतिक्षणसमाधेयत्वम्, विदूषक इत्यनेनानेकचेष्टा-

शालित्वं ध्वन्यते । मम सख्याः करे पतसि यथर्जुर्भवसि तथा पश्यामि । एवं च मत्सखी-

गुणासक्तेन त्वया सर्वमपीदं परित्याज्य मिति भावः । यद्वैतादृशी मत्सखी यदेतादृशं नायकं

स्वाधीनताभाजनं कर्तुं विजानातीति भवतीभ्यो मत्सखी समधिकतरेति भावः ॥
 

 

 

 
Sn Gurgeshwori Digital Fundation