This page has not been fully proofread.

चोपभोगाद्यभावो व्यज्यते । दयितो नायकः । पक्षे प्रीतिविषयः । रहसि । एवं च ज-
नसंचारायोग्यत्वेनात्यन्तनिगूहनीयत्वं द्योत्यते । व्यपदेशाद्व्याजात् । अर्थ इव द्रव्य-
मिव । अराजके । एवं च नायकस्य धनाढ्यत्वं ध्वन्यते । पक्षे लुण्ठनभीतिरावेद्यते ।
भोग्यः । नायिका चेयं परकीया ॥
 
बह्वपराद्धं त्वयेति नायिका वक्तीति सखीवचनमाकर्ण्य स्वयमेव कश्चिन्नायिकां वक्ति--
 
अश्रौषीरपराधान्मम तथ्यं कथय मन्मुखं वीक्ष्य ।
अभिधीयते न किं यदि न मानचौराननः कितवः ॥ २८ ॥
 
अश्रौषीरिति । ममापराधानश्रौषीः । एवं चापराधेषु चाक्षुषविषयत्वाभावो व्यज्यते ।
तेन नियतमपराद्धमनेनेति निश्चयकरणमनुचितमिति । इदं तथ्यमिति सोल्लुण्ठवचनम् ।
मन्मुखं वीक्ष्य कथय । एवं च मुखदर्शनोत्तरमनया न किंचिद्वक्तुं शक्यमिति भावः ।
यद्वा सत्यं कथयेति योजना । एवं च बहवोऽपराधास्त्वया श्रुतास्तन्मध्ये यः सत्यत्वेन
निर्णीतस्तमेव मत्समक्षं वदेत्यर्थः । मदीयापराधास्त्वया श्रुताः, इदं मत्समक्षं तथ्यं
वदेति वार्थः । नायिका वक्ति । यदि कितवो धूर्तस्त्वम् । एवं च चौरसाहचर्ये नियत-
मिति द्योत्यते । मानस्य चौररूपमाननं यस्य स न स्यास्तदा किं नाभिधीयते । एवं च
त्वद्दर्शने न मया किमपि वक्तुं शक्यमिति ध्वन्यते । यद्वाभिधीयते न किमित्यादि
सखीवचनम् ॥
 
कयोश्चिदनुरागं कश्चिद्वक्ति--
 
अन्योन्यमनु स्रोतसमन्यथान्यत्तटात्तटं भजतोः ।
उदितेऽर्केऽपि न माघस्नानं प्रसमाप्यते यूनोः ॥ २९ ॥
 
अन्योन्यमिति । प्रशस्तं स्रोतोऽम्बुसरणं यस्मिंस्तत्स्रोतसम् । अर्शआदित्वात्प्रशं-
सायामच् । एतादृशं तटादन्यतटम्, अथान्यतटमनुलक्ष्यीकृत्य परस्परं भजतोः । एवं
चैतत्तटापेक्षयान्यत्तटं प्रशस्तप्रवाहवदिति व्याजेन परस्परनिभृतसंभाषणादीच्छावतोरिति
भावः । एवं च जनदर्शनशङ्कया नैकत्रावस्थितिरिति ध्वन्यते । यूनोः । एवं चैतादृशा-
वस्थायोग्यत्वं द्योयते । अर्के सूर्य उदितेऽपि माघस्नानं न प्रसमाप्यते । एवं च माघ-
स्नानस्य सूर्योदयकालीनत्वेन तदननुसंधानत्वेनात्यन्तासक्तिरावेद्यते ॥
 
कश्चिद्यौवनशालिनीं नायिकामन्योक्त्या दुर्जनसंगतिशालिनी त्वमस्माकमनुपयु-
क्तेति वक्ति--
 
अयि चूतवल्लि फलभरनताङ्गि विष्वग्विकासिसौरभ्ये ।
श्वपचघटकर्पराङ्का त्वं किल फलितापि विफलैव ॥ ३० ॥
 
अयीति । अयि चूतवल्लि फलभरैर्नमिताङ्गि । पक्षे स्तनभरनताङ्गि । विष्वक्सर्वतो
विसारि सौरभ्यं सौगन्ध्यं यस्याः । पक्षे सौरभ्यं कीर्तिः । एवं च नाहमीदृशीति न