2023-03-13 16:03:36 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
स्वाधीनताभाजनं करोषीति वादिनीं सखीं काचिद्वक्ति । एवं च यथा नीचानुगामिनः
प्रवाहस्य परावृत्तिरशक्या तद्वत्पराङ्गनालम्पटनायकस्येति ध्वन्यते ॥
नायिकाविरहातिशयं सखी नायकं वक्ति--
अधिकः सर्वेभ्यो यः प्रियः प्रियेभ्यो हृदि स्थितः सततम् ।
स लुठति विरहे जीवः कण्ठेऽस्यास्त्वमिव संभोगे ॥ २५ ॥
अधिक इति । सर्वेभ्य एकादशेन्द्रियेभ्यः पञ्चप्राणेभ्यः पञ्चभूतेभ्यश्च योऽधिकः ।
संघातरूपत्वेनेति भावः । वस्तुतस्त्वेतदतिरिक्त इत्यर्थः । प्रियेभ्यो रूपादिविषयेभ्यः
प्रियः । निरुपाधिकप्रेमास्पदत्वादिति भावः । पक्षे सर्वेभ्यः सुहृद्भ्योऽधिकः । यद्वा स-
र्वेभ्यः प्रियेभ्योऽधिकः प्रिय इति योजना । सततं हृदि स्थितः । हृदयस्थानत्वाज्जीव-
स्येति भावः । पक्षे सर्वदा चिन्तनीयत्वेनेति भावः । संभोगे त्वमिव त्वद्विरहे स जीवः ॥
अस्या इति प्रत्यक्षवन्निर्देशः स्वसंनिधिवर्तित्वेन स्वाधीनत्वं व्यनक्ति । कण्ठे लुठति ।
एवं च त्वद्दर्शनविरहेऽस्याः प्राणप्रयाणमचिरादेव भविष्यतीति द्योत्यते । यद्वा पुनर्द-
र्शने मा विलम्बं कृथा इति नायिकासखी नायकं वक्ति । यथैतत्कालीनसंभोगे त्वमे-
तस्याः कण्ठे लुठसि तथा त्वद्विरहे जाते सति जीवो लुठति । लुठिष्यतीति भावः । एवं
च यथा न त्वद्विरहोऽस्या भविता तथा विधेयमिति प्रार्थना ध्वन्यते ॥
सर्वदा पराङ्गनासक्तमप्येनं मावमानय, यत इतोऽयं गमिष्यतीति वादिनीं सखीं काचिन्नायिका वक्ति--
अनयनपथे प्रिये न व्यथा यथा दृश्य एव दुष्प्रापे ।
म्लानैव केवलं निशि तपनशिला वासरे ज्वलति ॥ २६ ॥
अनयनेति । प्रिये कान्तेऽनयनपथे । विदेशस्थ इत्यर्थः । तथा न व्यथा यथा दृश्य
एव दुष्प्रापे । एवं चैतद्विदेशगमने न तथा दुःखं यथैतदत्रत्यान्यादृशाचरणेनेति भावः ।
यद्वा काचित्कथमियन्ति विरहदिनान्यतिवाहितानि, अधुनैवागतमेनमवलोक्य विकलैव
जातासीति वादिनीं सखीं वक्ति । प्रिये, न तु पतिमात्रे । न तथा व्यथा । एवं चानय-
नपथेऽपि दुःखमस्तीति भावः । एवं च निकटवर्तिनायकाप्राप्तौ नायकीयविदेशगमना-
दपि दुःखातिशयो ध्वन्यते । अत्र दृष्टान्तमाह--निशि तपनशिला केवलं म्लानैव
वासरे ज्वलति ॥
सखी नायिकां शिक्षयति--
अविभाव्यो मित्त्रेऽपि स्थितिमात्रेणैव नन्दयन्दयितः ।
रहसि व्यपदेशादयमर्थ इवाराजके भोग्यः ॥ २७ ॥
अविभाव्य इति । मित्त्रेऽपि । किमु वाच्यं शत्राविति भावः । यद्वा सूर्ये । विभा-
वनार्होऽपि न । एवं च रात्रावेव द्रष्टव्य इति भावः । स्थितिमात्रेणैव नन्दयन् । एवं