2023-03-08 10:03:28 by Pathan Vali Khan
This page has not been fully proofread.
कृतरतिलनाज्जासाध्वसां नवोढां नायिकां प्रलोभयितुं कस्याश्चिद्वार्तातां सखी वक्ति--
अलमविषयभयलज्जावञ्चितमात्मानमियमियत्समयम् ।
नवपरिचितदयितगुणा शोचति नालपति शयनसखीः ॥ २२ ॥
अलमिति । नवपरिचितदयितगुणा । नूतन विज्ञातदयितर तिसुखेत्यर्थः । इयं त्वत्प्रति-
वेशिन्येतावत्कालमस्थानलज्जाभयाभ्यां वश्ञ्चितम् । एवं चात्र न लज्जा न वा भीति-
रिति भावः । आत्मानमलमत्यर्थेथं शोचति । यद्वालमिति वञ्चितमित्यत्रान्वेति । एताव-
त्कालं वृथा स्थितमिति धियेति भावः । शयनसखीर्नालपति । अतिनिकटवर्तिनीभिरे-
ताभिः कथं नाहमीदृशं सुखमस्त्यत्रेति बलादवबोधितेति क्रोधादिति भावः । यद्वाग्रेऽपि
कदाचिदेताभिर्यानविधानं शिक्षणीयमिति धियेति भावः । एवं च तवाप्यग्र एवमेव
भविष्यतीत्यतोऽधुनास्मद्वचनेन लज्जाभयादि परित्यज्य प्रियसंनिधौ गच्छेति ध्वन्यते ॥
नायकं प्रति नायिकाविरहं सखी वक्ति--
अनुरागवर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी ।
त्रिपुररिपुणेव गौरी वरतनुरर्धावशिष्टैव ॥ २३ ॥
अनुरागेति । अनुरागाधीनेन । एवं चानुरागाधिक्ये विरहाधिक्यमिति ध्वन्यते ।
पक्षेऽनुरागेण प्रीत्या वर्तते । एवं च सर्वदा प्रीतिजनककार्यकारित्वं ध्वन्यते । उग्रेण ।
एवं चासह्यलंत्वं ध्वन्यते । पक्ष उग्रनाम्ना । तव विरहेण गृहीताङ्गी व्याप्ताङ्गी । पक्षे
स्वस्वरूपकृताङ्गी । त्रिपुररिपुणा महादेवेन । पक्षे स्वर्गमृत्युपातालवैरिणा । एवं च तव
विरहे क्वापि न तस्याः सुखमिति व्यज्यते । गौरी पार्वतीव । पक्षे विरहपाण्डुरवर्णवती ।
वरतनुर्नायिका । एवं चावश्यप्ग्राह्यदर्शनयोग्यत्वं व्यज्यते । अर्धावशिष्टैव । विरहक्षीण-
लात्वादिति भावः । पक्षेऽर्धनारीश्वरत्वादिति भावः । एवं च त्वत्संगमविलम्बे तस्याः
प्राणविश्लेष एव भविष्यतीति द्योत्यते ॥
काचिन्नायिका स्वात्यन्ता सक्तनायकेच्छावदन्यनायिका उपहसति--
अन्यप्रवणे प्रेयसि विपरीते स्रोतसीव विहितास्थाः ।
तद्गतिमिच्छन्त्यः सखि भवन्ति विफलश्रमा हास्याः ॥ २४ ॥
अन्येति । विपरीते निम्नानुगामिनि । स्रोतसीव प्रवाह इव । अन्यप्रवणेऽन्यासक्ते
नाय के विहितास्थाः कृतासक्तयः तद्गतिं तदासक्तिम् । ख
स्वस्मिन्निति भावः । पक्षे सा
विपरीता या गतिर्गमनं तामिच्छन्त्यः । विफलश्रमाः । स्वनिष्ठतदासक्तेर्दूरी कर्तुमशक्य-
त्वादिति भावः । पक्षे प्रतिलोमजलागमनाभावादिति भावः । हास्या निन्दायोग्याः ।
पक्ष उपहासयोग्याः । न केवलं निरर्थकम् । अपि तु दुरर्थकत्वमिति भावः । एवं च
निम्नानुरूपगतिस्वभावस्य प्रवाहस्य विपरीतगतिरिवान्यनायिकासक्तनायक स्यान्यत्रास-
क्तिरसंभाविनीति द्योत्यते । नायिका चेयं गर्विता । यद्वा स्वीया परकीयां निन्दति ।
एवं च स्वकान्तासक्तिः स्वाभाविकीति भावः । अथवान्यनायिकासक्तं स्वनायकं कथं न
अलमविषयभयलज्जावञ्चितमात्मानमियमियत्समयम् ।
नवपरिचितदयितगुणा शोचति नालपति शयनसखीः ॥ २२ ॥
अलमिति । नवपरिचितदयितगुणा । नूतन विज्ञातदयितर
वेशिन्येतावत्कालमस्थानलज्जाभयाभ्यां व
रिति भावः । आत्मानमलमत्यर्
त्कालं वृथा स्थितमिति धियेति भावः । शयनसखीर्नालपति । अतिनिकटवर्तिनीभिरे-
ताभिः कथं नाहमीदृशं सुखमस्त्यत्रेति बलादवबोधितेति क्रोधादिति भावः । यद्वाग्रेऽपि
कदाचिदेताभिर्यानविधानं शिक्षणीयमिति धियेति भावः । एवं च तवाप्यग्र एवमेव
भविष्यतीत्यतोऽधुनास्मद्वचनेन लज्जाभयादि परित्यज्य प्रियसंनिधौ गच्छेति ध्वन्यते ॥
नायकं प्रति नायिकाविरहं सखी वक्ति--
अनुरागवर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी ।
त्रिपुररिपुणेव गौरी वरतनुरर्धावशिष्टैव ॥ २३ ॥
अनुरागेति । अनुरागाधीनेन । एवं चानुरागाधिक्ये विरहाधिक्यमिति ध्वन्यते ।
पक्षेऽनुरागेण प्रीत्या वर्तते । एवं च सर्वदा प्रीतिजनककार्यकारित्वं ध्वन्यते । उग्रेण ।
एवं चासह्य
स्वस्वरूपकृताङ्गी । त्रिपुररिपुणा महादेवेन । पक्षे स्वर्गमृत्युपातालवैरिणा । एवं च तव
विरहे क्वापि न तस्याः सुखमिति व्यज्यते । गौरी पार्वतीव । पक्षे विरहपाण्डुरवर्णवती ।
वरतनुर्नायिका । एवं चावश्य
प्राणविश्लेष एव भविष्यतीति द्योत्यते ॥
काचिन्नायिका स्वात्यन्ता
अन्यप्रवणे प्रेयसि विपरीते स्रोतसीव विहितास्थाः ।
तद्गतिमिच्छन्त्यः सखि भवन्ति विफलश्रमा हास्याः ॥ २४ ॥
अन्येति । विपरीते निम्नानुगामिनि । स्रोतसीव प्रवाह इव । अन्यप्रवणेऽन्यासक्ते
नाय
स्वस्मिन्निति भावः । पक्षे सा
विपरीता या गतिर्गमनं तामिच्छन्त्यः । विफलश्रमाः । स्वनिष्ठतदासक्तेर्दूरी
त्वादिति भावः । पक्षे प्रतिलोमजलागमनाभावादिति भावः । हास्या निन्दायोग्याः ।
पक्ष उपहासयोग्याः । न केवलं निरर्थकम् । अपि तु दुरर्थकत्वमिति भावः । एवं च
निम्नानुरूपगतिस्वभावस्य प्रवाहस्य विपरीतगतिरिवान्यनायिकासक्तनायक