2023-03-13 16:03:20 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
अयीति । अयि लज्जावति । विपरीतलक्षणया लज्जाशून्ये । अत एव निर्भरमति-
शयशालि निशीथे मध्यरात्रे । एवं च प्रातर्निद्राजननयोग्यत्वं द्योत्यते । यद्रतं तेन साल-
साङ्गि सुखसुप्ते । एवं च क्लेशेन निद्रितं मयेति प्रतारणं कर्तुमशक्यमिति ध्वन्यते । लो-
चनकोकनदच्छदम् । जागरशोणत्वात्कोकनदत्वेन निरूपणम् । अत्र च्छदपदमनुचित-
मित्याभाति, विकसनस्योत्पलधर्मत्वात् । वस्तुतस्तु गोलके कोकनदत्वारोपः । पक्ष्मयु-
क्तप्रदेशयोर्दलत्वारोपः । उन्मीलनं च विश्लेष इति न किंचिद्दूषणम् । 'रक्तोत्पलं
कोकनदम्' इत्यमरः । उन्मीलय । ते सुप्रभातं भवतु । एवं च सुरात्रस्य जातत्वादे-
तावन्मात्रमाशास्यमिति भावः । एवं च यया रीत्या रात्रिरतिवाहिता तयैव रीत्या
दिनमप्यतिवाहनीयमिति परिहासो व्यज्यते ॥
कश्चिदसमय एव रतमर्थयमानः कयाचिन्नायिकया रतचिह्नोत्पत्तिभिया तदीयप्रेमह-
ठाभ्यां केवलमालिङ्गितस्तद्वृत्तान्तं स्ववयस्यं प्रत्याह--
अमिलितवदनमपीडितवक्षोरुहमतिविदूरजघनोरु ।
शपथशतेन भुजाभ्यां केवलमालिङ्गितोऽस्मि तया ॥ २० ॥
अमिलितेति । असंयुक्तवदनम् । ताम्बूलरागापगमभीत्येति भावः । अपीडितवक्षो-
रुहम् । चन्दनप्रच्यवभीत्येति भावः । अपीडितमित्यनेन किंचित्कुचसंबन्धो वृत्त इति
व्यज्यते । तेन कुचयोरत्यन्तोन्नतत्वम् । अतिविदूरजघनोरु । काञ्च्यादिविन्यासान्य-
थाभावसंभावनयेति भावः । एतानि क्रियाविशेषणानि । तया केवलं शपथशतेन । एवं
च केवलपदेनालिङ्गनेऽन्यप्रबलहेत्वभावो द्योत्यते । शपथपदेनापरिहार्यत्वम् । शतपदेन
स्वाग्रहबाहुल्यम् । यत्तु केवलमालिङ्गितोऽस्मीति व्याख्यानं तदमिलितवदनमित्यादिनैव
चुम्बनाद्यभावप्रतीतौ केवलपदानतिप्रयोजनत्वसंपादकतया केवलमकिंचित्करमाभाति ।
अत एव केवलं भुजाभ्यामित्यपास्तम् । भुजाभ्यामालिङ्गितोऽस्मि । यद्वा कश्चित्किंचि-
द्भग्नमानवत्या वृत्तं वक्ति । यदि मयापराधः कृतः स्यात्तदायमयं शपथ इति शपथश-
तेन । अथवा विस्रव्धनवोढावृत्तं कश्चिद्वक्ति ॥
कश्चित्कांचिद्वक्ति--
अतिपूजिततारेयं दृष्टिः श्रुतिलङ्घनक्षमा सुतनु ।
जिनसिद्धान्तस्थितिरिव सवासना कं न मोहयति ॥ २१ ॥
अतीति । हे सुतनु । अतिपूजिता । श्रेष्ठेति यावत् । तारा नेत्रकनीनिका । पक्षे-
ऽत्यन्तपूजिता ताराख्या देवता यत्र । श्रुतेः कर्णस्योल्लङ्घनसमर्था । अत्यन्तविशालत्वा-
दिति भावः । पक्षे वेदोदीरितार्थाननुष्ठानकारिणीत्यर्थः । सवासनाभिप्रायविशेषशा-
लिनी । कज्जलादिसंस्कारवतीति केचित् । पक्षे तन्मतसिद्धक्षणिकपदार्थैकरूपकुबुद्ध्यु-
त्पादकहेतुमती । जिनसिद्धान्तस्थितिरिव कं न मोहयति । अपि तु सर्वमपीति भावः।
यद्वा सखीवचनमेतत् ॥