This page has not been fully proofread.

२६
 
काव्यमाला ।
 
षमुपभुङ्क्त इति ध्व॒न्यते । यद्वा न केवलमेतस्या लज्जावत्त्वदर्शनमात्रेण भवद्भिर्विश्वसि-

तव्यमिति ध्वन्यते ॥
 

 
पररञ्जकगुणानामेव गुणत्वम्, न त्वरञ्जकानामित्याह-
-
 
अन्तर्गतैर्गुणैः किं द्वित्रा अपि यत्र साक्षिणो विरलाः ।

स गुणो गीतेर्यदसौ वनेचरं हरिणमपि हरति ॥ १७ ॥

 
अन्तरिति । येषु द्वित्रा अपि साक्षिणो विरलाः । एवं च बहुसाक्षित्वेऽत्यन्तप्राश-

स्त्यमिति भावः । तैरन्तर्गतै रञ्जनासमर्थैर्गुणैः किम् । न किंचित्फलमिति भावः । गीतेः

स गुणः । एवं च गुणे गुणानङ्गीकारेऽपि पररञ्जकतया गीतेरपि गुणवत्ताव्यवहार इति

भावः । यदसौ वनेचरम् । एवं च ग्रामसंबन्धाभावेन मधुरशब्दरसानभिज्ञत्वं ध्वन्यते।

हरिणमपि । एवं च मनुष्याणां का वार्तेति भावः । हरति स्वाधीनताभाजनं करोति ।

यद्वा वनेचरमपि । एवं च नागरिकस्य का वार्तेति भावः । अथ च प्रकटीकृतगुणानामेव

सार्थक्यम्, न त्वन्तर्गतानामिति भावः । यद्वा दूती नायकान्तरसंयोजनाय नायिकां

वक्ति । अन्तर्गतानेककामकलाभिः । त्वदीयाभिरिति भावः । यत्र येषु गुणेषु द्वित्रा

अपि । एवं च बहूनां का वार्तेति भावः । साक्षिणो विरलाः । गीतिरिव गीतिस्त्वत्प्र-

तिवेशिनी । तस्याः स गुणो यदसौ वनेचरं हरिणमपि हरति । एवं च तस्या एव क.
-
लाकलापः सार्थकः । याज्ञमपि रञ्जयति । एवं च त्वया स्वगुणाः परपुरुषसंगतिमन्तरा-

नर्थका न विधेया इति ध्वन्यते ॥
 

 
नायिकासखी सपत्नीसखीं प्रति वक्ति-
-
 
अलुलितसकलविभूषां प्रातर्बालां विलोक्य मुदितं प्राक् ।
 

प्रियशिरसि वीक्ष्य यावकमथ निःश्वसितं सपत्नीभिः ॥ १८ ॥

 
अळुलितेति । यथास्थितसकलभूषणाम् । एवं च संभोगेऽवश्यं कस्यचिद्भूषणस्योप-

मर्दः संजात एव स्यात्, तस्मान्न सुरतं संजातमिति भावः । बालाम् । एवं च यौवन-

शालित्वेन द्वेषयोग्यत्वं प्रियस्य प्रीतियोग्यत्वं च ध्वन्यते । प्रातः । एवं च सुरताभा-

वनिर्णययोग्यत्वं ध्वन्यते । विलोक्य । एवं च सम्यक्तया संभोगराहित्यनिर्णयवत्ता

ध्वन्यते । सपत्नीभिः । एवं च द्वेषशालित्वं व्यज्यते । बहुवचनेन सर्वासामैकमत्ये

नायिकायामुत्कर्षातिशयो ध्वन्यते । प्राङ् मुदितम् । संभोगविरहेण प्रियप्रेमराहित्यनि-

र्णयेनेति भावः । अथानन्तरं प्रियमस्तके यावकमलक्तकं वीक्ष्य निःश्वसितम् । प्रियप्प्र-
र-
णामादिनापि नानया मानः परित्यक्त इति महत्सौभाग्यमस्या इत्यसूयया दुःखोद्रेका-

दिति भावः ॥
 

 
रात्रौ रतिसदने गमनेऽतिलजां नाटयन्तीं नायिकां सखी प्रातर्वक्ति-
-
 
अयि लज्जावति निर्भरनिशीथरतनिःसहाङ्गि सुखसुप्ते IDF
 

लोचनकोकनदच्छदमुन्मीलय सुप्रभातं ते ॥ १९ ॥
 
"Gurgeshwon Digeal Fundation