2023-03-13 16:03:03 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
एवं चायं न दौष्ट्येन वदति, किं तु कुतुकेन । नातः कोपो विधेयस्त्वयेति ध्वन्यते ।
यद्वा साधारणोक्तिरियम् । अत्रैव विपरीतयोजनयाप्रियवदनविनिःसृतवचनं समीचीनम-
प्यसमीचीनमेवेति व्यज्यते । एवं च प्रेम्णो मुख्यत्वमावेद्यते । कथमेतदीयैतादृशवचन-
माकर्ण्य तूष्णीं स्थीयते त्वयेति वादिनीं सखीं नायिका समाधत्त इति वार्थः ॥
दुष्टस्वभावं नायकं नायिकासखी वक्ति--
अयि सुभग कुतुकतरला विचरन्ती सौरभानुसारेण ।
त्वयि मोहाय वराकी पतिता मधुपीव विषकुसुमे ॥ १४ ॥
अयीति । सुष्ठु भाग्यं यस्य तत्संबुद्धिः । कथमन्यथैतादृशी नायिका त्वय्यासक्तेति
भावः । कुतुकार्थम् । न तु लोभार्थमिति भावः । तरला । यद्वा सुभगस्य कुतुकेन तरला ।
सौरभं समधिकगुणवानिति कीर्तिः । तदनुसारेण विचरन्ती । एवं च त्वत्स्वभावस्य न
तात्त्विकं ज्ञानं तस्या इति भावः । यद्वा सौरभानुसारेण स्वकीर्तिसंरक्षणपुरःसरं विच-
रन्ती । पक्षे सौगन्ध्यानुसारेण । विषकुसुमे । कुसुमपदेनावश्यफलजनकतायोग्यत्वं
ध्वन्यते । मधुपीव । एवं च ज्ञानशून्यत्वं व्यज्यते । त्वयि वराकी । एवं च सरलत्वं
ध्वन्यते । मोहाय दुःखाय । एवं चान्यफलाभावो द्योत्यते । पक्षे वैचित्त्याय । पतिता ।
एवं च दैववशादेतादृशं कार्यं तया कृतम्, त्वं चैतादृशाचरणशालीति दुःखातिशयो
ध्वन्यते ॥
कस्याश्चित्सविधे कस्यचित्तरुणमहाजनस्य गमनसंभावनयान्यतरुणविरतावप्यतिजर-
द्वयोभिः सा भुज्यत इति कश्चित्कंचित्प्रत्याह--
अयि मुग्धगन्धसिन्धुरशङ्कामात्रेण दन्तिनो दलिताः ।
उपभुञ्जते करेणूः केवलमिह मत्कुणाः करिणः ॥ १५ ॥
अयीति । अयि । मुग्धः सुन्दरो यो गन्धगजः । यद्गन्धमात्रादेव गजाः पलायन्ते
स गन्धगजः । तच्छङ्कामात्रेण । न तु दर्शनादिनेति भावः । दन्तयुक्ता गजा दलिता
भग्नाः । पलायिता इत्यर्थः । मत्कुणा दन्तरहिताः करिणः केवलं करेणूर्हस्तिनी-
रुपभुञ्जते ॥
बहिः कृत्रिमातिशयलजावत्त्वेऽप्यत्यन्तदुष्टयेमिति काचित्कांचित्प्रति वक्ति--
अतिविनयवामनतनुर्विलङ्घते गेहदेहलीं न वधूः ।
अस्याः पुनरारभटीं कुसुम्भवाटी विजानाति ॥ १६ ॥
अतीति । अत्यन्तविनयेन वामनवत्तनुर्यस्याः । एवं च त्रिविक्रमावतारकर्मकरणसा-
मर्थ्यमभिव्यज्यते । वधूर्गेहदेहलीं न लङ्घते । एवं च लज्जातिशयः सूच्यते । अस्याः
पुनरारभटीं प्रौढिविशेषं कुसुम्भवाटी विजानाति । तत्रैतस्या निर्लज्जत्वं द्रष्टव्यमिति
भावः । एवं च सदन एवं विनयं प्रदर्श्य गुर्वादिवञ्चनेन कुसुम्भवाट्यां कं कं न परपुरु-