This page has not been fully proofread.

आर्यासप्तशती ।
 
२५
 
एवं चायं न दौष्ट्येन वदति, किं तु कुतुकेन । नातः कोपो विधेयस्त्वयेति ध्वन्यते ।

यद्वा साधारणोक्तिरियम् । अत्रैव विपरीतयोजनयाप्रियवदनविनिःसृतवचनं समीचीनम-

प्यसमीचीनमेवेति व्यज्यते । एवं च प्रेम्णो मुख्यत्वमावेद्यते । कथमेत दीयैतादृशवचन-

माकर्ण्य तूष्णीं स्थीयते त्वयेति वादिनीं सखीं नायिका समाधत्त इति वार्थः ॥

 
दुष्टस्वभावं नायकं नायिकासखी वक्ति-
-
 

 
अयि सुभग कुतुकतरला विचरन्ती सौरभानुसारेण ।
 

त्वयि मोहाय वराकी पतिता मधुपीव विषकुसुमे ॥ १४ ॥

 
अयीति । सुष्नु भाग्यं यस्य तत्संबुद्धिः । कथमन्यथैतादृशी नायिका त्वय्यासक्तेति

भावः । कुतुकार्थम् । न तु लोभार्थमिति भावः । तरला । यद्वा सुभगस्य कुतुकेन तरला ।

सौरभं समधिकगुणवानिति कीर्तिः । तदनुसारेण विचरन्ती । एवं च त्वत्स्वभावस्य न

तात्त्विकं ज्ञानं तस्या इति भावः । यद्वा सौरभानुसारेण स्वकीर्तिसंरक्षणपुरःसरं विच-

रन्ती । पक्षे सौगन्ध्यानुसारेण । विषकुसुमे । कुसुमपदेनावश्यफलजनकतायोग्यत्वं

ध्वन्यते । मधुपीव । एवं च ज्ञानशून्यत्वं व्यज्यते । त्वयि वराकी । एवं च सरलत्वं

ध्वन्यते । मोहाय दुःखाय । एवं चान्यफलाभावो द्योत्यते । पक्षे वैचित्त्याय । पतिता ।

एवं च दैववशादेतादृशं कार्य तया कृतम्, त्वं चैतादृशाचरणशालीति दुःखातिशयो

ध्वन्यते ॥
 

 
कस्याश्चित्सविधे कस्यचित्तरुणमहाजनस्य गमनसंभावनयान्यतरुणविरतावप्यतिजर-

द्वयोभिः सा भुज्यत इति कश्चित्कंचित्प्रत्याह-

अयि मुग्धगन्धसिन्धुरशङ्कामात्रेण दन्तिनो दलिताः ।
 

 
उपभुञ्जते करेणूः केवलमिह मत्कुणाः करिणः ॥ १५ ॥

अयीति । अयि । मुग्धः सुन्दरो यो गन्धगजः । यद्गन्धमात्रादेव गजाः पलायन्ते

स गन्धगजः । तच्छङ्कामात्रेण । न तु दर्शनादिनेति भावः । दन्तयुक्ता गजा दलिता

भग्नाः । पलायिता इत्यर्थः । मत्कुणा दन्तरहिताः करिणः केवलं करेणूर्हस्तिनी-

रुपभुञ्जते ॥
 

 
बहिः कृत्रिमातिशयलजावत्त्वेऽप्यत्यन्तदुष्टयेमिति काचित्कांचित्प्रति वक्ति-

अतिविनयवामन तनुर्विलङ्घते गेहदेहलीं न वधूः ।
 

 
अस्याः पुनरारभटीं कुसुम्भवाटी विजानाति ॥ १६ ॥
 

 
अतीति । अत्यन्त विनयेन वामनवत्तनुर्यस्याः । एवं च त्रिविक्रमावतारकर्म करणसा-

मर्थ्यमभिव्यज्यते । वधूर्गेहदेहलीं न लगते । एवं च लजातिशयः सूच्यते । अस्याः

पुनरारभटीं प्रौढिविशेषं कुसुम्भवाटी विजानाति । तत्रैतस्या निर्लजलं द्रष्टव्यमिति

भावः । एवं च सदन एवं विनयं प्रदर्श्य गुर्वादिवश्चनेन कुसुम्भवाट्यां के के न परपुरु-

Sri Gargeshwari Digital Foundation