2023-03-08 09:09:18 by Pathan Vali Khan
This page has not been fully proofread.
अपराधादधिकं मां व्यथयति तव कपटवचनरचनेयम् ।
शस्त्राघातो न तथा सूचीव्यधवेदना यादृक् ॥ ११ ॥
अपराधादिति । अपराधादन्याङ्गनासंगमरूपात् । त्वद्गवेषणार्थमेव तत्र गतमित्यादि-
कपटवचनरचना मामधिकं व्यथयति । एवं च सत्यभाषित्वेऽपराधोऽपि क्षन्तुमर्ह इत्यावे
द्यते । महतोऽपराधस्य नात्यन्तदुःखदत्वम्, अल्पायाः कपटवचनरचनायाः कथमत्यन्त-
दुःखदत्वमित्यत्
थयति यथा सूच्या व्यधः सीवनं तद्दुःखम् । एवं च सूचीकृतत्वेन नाल्पत्वमाशङ्
भावः । यद्वा साधारण्येनोक्तिरियम् ॥
-
२४
कयोश्चिद्गच्छतोरसतीकटाक्षितमेकं
किंचित्त्वया ज्ञातुं शक्यम्' इत्यपरस्तं प्रत्याह-
-
-
किंचित्त्वया ज्ञातुं शक्यम्' इत्यपरस्तं प्रत्याह--
असतीलोचनमुकुरे किमपि प्रतिफलति यन्मनोवर्ति ।
सारस्वतमपि चक्षुः सतिमिरमिव तन्न लक्षयति ॥ १२ ॥
असतीति । असत्या लोचयति तल्लोचनम् । एवं चेतस्ततः प्रसरणशीलत्वं ध्वन्यते ।
तद्रूपमुकुरे । मुकुरपदेन मङ्गलत्वेनावश्यदर्शनीयत्वं व्यज्यते । किमप्यनिर्वचनीयम् ।
मनोवर्ति । असत्या एवेति भावः । यद्वा किमपि न लक्षयतीति योजना । मनोवर्तीत्य-
नेनातिसूक्ष्मत्वम् । तेन च बहिः स्फुटीभावानर्हत्वं द्योत्यते । यत्प्रतिफलति तत्सार
मपि चक्षुः । सरस्वतीयत्वेनातीतानागतवस्तुग्रहणयोग्यत्वं ध्वन्यते । सतिमिरमिव ति-
मिराख्यदोषदूषितमिव । न लक्षयति । सप्रकारं न वेत्तीति किं वाच्यमिति भावः ।
एवं च सारस्वतचक्षुषोऽप्येतादृशी गतिः, तत्र का वार्ता तवेति भावः । एवं चासतीलो-
चनव्यक्तीकृतमपि न ज्ञातुं शक्यम्, तत्र का वार्ता तच्चित्तगतमिति ध्वन्यते । यद्वा के-
वलं पण्डितं कटाक्षयन्तीमसतीमालोक्य तं प्रति काचिदन्या वक्ति । सार
चक्षुस्तं न लक्षयत्यपि । एवं च याथातथ्येन स्वरूपपरिचितिर्दूरापास्तेति भावः । एवं
च कटाक्षितमपि न त्वया ज्ञायते । इत्यन्तर्जडत्वेन सर्वमपि त्वदीयाध्ययनमसत्कल्प-
मिति ध्वन्यते ॥
नायकदुर्वादकुपितां नायिकां सखी समाधत्ते-
अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः ।
इतरेन्धनजन्मा यो धूमः सोऽगुरुभवो धूपः ॥ १३ ॥
अन्येति । अन्यस्याप्रियस्य मुखे यो दुर्वादो दुर्वचनम् । प्रियस्य दयितस्य मुखे स एव
दुर्वाद एव । स एवेत्यनेनान्यूनानतिरिक्तत्वं ध्वन्यते । परिहासः सनिन्दरञ्जकं वाक्यम् ।
अत्र दृष्टान्तमाह
Jarion