This page has not been fully proofread.

आर्यासप्तशती ।
 
कश्चित्कंचिदुपदिशति-
अन्धत्वमन्धसमये बधिरत्वं बधिरकाल आलम्ब्य ।
श्रीकेशवयोः प्रणयी प्रजापतिर्नाभिवास्तव्यः ॥ ८ ॥
 
1
 
२३
 
अन्धत्वमिति । अन्धसमये क्रीडाकाले । अवलोकनानर्हत्वादिति भावः । अन्ध-
भावम् । बधिरकाले क्रीडाकालीनव्रीडाकरवाक्यकाले । 'द्व्यर्यैः पदैः पिशुनयेच्च रहस्य-
वस्तु' इत्यादिना रतारम्भकालेऽश्लीलपदाभिधानस्य कामशास्त्रेऽभिधानात् । बधिरभा-
वमालम्ब्य । प्रजानां पतिः । एवं च महद्भिरप्येतादृशरीत्या स्थीयते तत्र का वार्तान्य-
स्येति भावः । श्रीकेशवयोः । एवं चैतादृशसंनिधिः स्नेहश्च दुष्प्राप इति ध्वन्यते । प्र-
णयी प्रीतिमान् । नाभिर्मध्यस्तत्र वसतिमान् । केकवनाभिवसतिमत्त्वाच्छ्रीकेशवयोः
सुरतसमयेऽपि ब्रह्मणो मध्यवर्तित्वमिति भावः । यद्वा नाभौ सविधे वास्तव्यं यस्य ।
एवं चातिनैकट्यं ध्वन्यते । अथवा नाभिवसतिमान् । उभयोः प्रणयी जात इत्यर्थः । य-
द्वोभयोर्नित्यसांनिध्यात्प्रजापतावुभयसांनिध्यम् । एतेन नाभिरवयवविशेष इत्यर्थे केशव-
संबन्धवत्त्वेऽपि श्रीसंबन्धाभाव इत्यपास्तम् । एवं च निकटवसतिमात्रं न पुरुषार्थः,
किं तु प्रीतिविशिष्टनिकटवसतिरिति भावः । एवं च प्रभ्वादिसविधे प्रभ्वादिप्रीतिविशि-
टनिकटवसतिकामस्त्वमसि, तर्ह्यनयैव रीत्या तिष्ठेति ध्वन्यते ॥
मूर्खसविधकृतपाण्डिल्यमनवाप्ततत्फलतया खिन्नं कश्चिदन्योक्त्या समाधत्ते-
,
 
अयि कोषकार कुरुषे वनेचराणां पुरो गुणोद्गारम् ।
 
यन्न विदार्य विचारितजठरस्त्वं स खलु ते लाभः ॥ ९ ॥
अयीति । कोषकारः कीटविशेषः । वनेचराणाम् । एवं च कार्याकार्यविवेकविधु-
रत्वं ध्वन्यते । पुरः । गुणानां तन्तूनामुगिरणं कुरुषे । यद्विदार्य । एवं च पश्चात्प्रती-
कारानर्हत्वं व्यज्यते । विचारितमुदरं यस्य सः । कुत एते गुणा निःसरन्तीति विचार-
णायेति भावः । त्वं नासि खलु स ते लाभः । एवं च मूर्खाणाम गुणप्रकटनं न केवल-
मप्राप्तिकरम्, अपि त्वनर्थकरमिति ध्वन्यते ॥
 
दूती नायिकाप्रेमातिशयं नायके वक्ति-
अगणितमहिमा लङ्घितगुरुरघनेहः स्तनंधयविरोधी ।
इष्टाकीर्तिस्तस्यास्त्वयि रागः प्राणनिरपेक्षः ॥ १० ॥
अगणितेति । अगणितो महिमा कुलप्रतिष्ठा येन । महिमपदेनावश्यस्पृहणीयत्वं व्य-
ज्यते । लहितो गुरुः श्वशुरादिर्येन । तन्निषेधतिरस्कारादिति भावः । न विद्यते धनेच्छा
यस्य । स्तनंधयोऽत्यन्तबालः । एवं चातिस्त्रेहार्द्रलं ध्वन्यते । तद्विरोधी । प्रसवोत्तरम-
चिरात्संभोगे स्तन्यहानिर्भवतीति लौकिकम् । इष्टेच्छाविषयीभूता कीर्तिर्यस्य । एवं चा
कीर्तिभीतिशून्यत्वं ध्वन्यते । एतादृक्तस्यास्त्वयि रागः । प्राणनिरपेक्षः प्राणापेक्षा-
शून्यः । एवं चातिशयशालित्वं व्यज्यते ॥
 
Sri Gargeskiari Digital Foundation