2023-03-08 06:26:46 by Pathan Vali Khan
This page has not been fully proofread.
अस्त्विति । म्लानिर्निस्तेजस्कत्वमस्तु । जनो लाञ्छनमपवादम् । पक्षे कलङ्कम् ।
वदतु । ओजः । यद्वशात्सर्वेऽपि बिभ्यति । पक्षे प्रसादविशेषः । हीयताम् । तदपि स
नायकः । सुधांशुर्भूछायामिव । एवं च त्यागानर्हत्वं ध्वन्यते । पक्षे सुधांशुतुल्यः । एवं
च स्पृहणीयत्वमावेद्यते । त्वां न मुञ्चति त्यक्ष्यति । यद्वा पूर्वोत्तरमेतत् ॥
मामियं दुर्वचनैर्दुःखयतीति वादिनं नायकं प्रति नायिकासखी तवैवायमपराधो न
त्वस्या इति वक्ति--
अतिचापलं वितन्वन्नन्तर्निविशन्नि कामकाठिन्यः ।
मुखरयसि स्वयमेतां सद्वृत्तां शङ्कुरिव घण्टाम् ॥ ६ ॥
अतीति । अन्तर्निविशन्हृदयमध्ये प्रविशन् । तयाखास्वान्ते धृतोऽपीत्यर्थः । यद्वा प्रथ-
मतः साधुत्वं प्रदर्श्य हृदयं प्रविश्यैतादृशाचरणं करोषीत्यत्यन्तानुचितकारित्वं तवेत्य-
र्थः । पक्षेऽन्तर्मध्ये । अतिचापलमन्यनायिकासंभोगादिरूपम् । पक्षे निरन्तरसंयोगवि-
भागरूपं विस्तारयन् । एवं चाज्ञानक्षमानर्हत्वं द्योत्यते । निकाममत्यन्तं काठिन्यं क-
ठिनत्वं यस्य सः । एवं च चापल्यसंपादनेऽपि नम्रत्वं न करोषीति दुःखदस्त्वमसीति
द्योत्यते । पक्षे काठिन्यमवयवसंनिवेशविशेषः । यद्वान्तः सदनमध्ये । एवं बहिः स्थितौ
चापल्यं करोषि, सदनमध्ये तु कार्कश्यमित्युभयतोऽपि दुःखदस्त्वमिति द्योत्यते । स्वयं
त्वमेव । सद्वृत्तां सच्चरिताम् । एवं च तवासच्चरितं विलोक्यावश्यमेतस्या दुःखं भव-
तीति भावः । पक्षे समीचीनवर्तुलां लोहकीलो घण्टामिवैनां मुखरयसि । एवं च तवै-
वायमपराधो न तस्या इति भावः ॥
क्वचिद्यूनोः संकेतनिकेतनाभावादेव न संगम इतिकंकश्चित्कंचिद्वक्ति–--
अङ्गेषु जीर्यति परं खञ्जनयूनोर्मनोभवप्रसरः ।
न पुनरनन्तर्गर्भितनिधिनि धरामण्डले केलिः ॥ ७॥
अङ्गेष्विति । खञ्जनयूनोः परमुत्कृष्टं मनोभवस्य । एवं च सर्वत्र बाधाकारित्वं ध्व-
न्यते । प्रसर आधिक्यमङ्गेषु जीर्यति समाप्तं भवति । यद्वा परं केवलं जीर्यतीति यो-
जना । परं तु नान्तर्गर्भितो निधिर्यत्रैतादृशे धरामण्डले केलिर्न । निधिमत्प्रदेश एव
खञ्जनयोः संभोग इतिप्रे[^१]प्रसिद्धिः । यद्वा सख्यत्यन्तगुप्तसंकेतं विना नैव कार्ययं कार्यमिति
नायिकामुपदिशति । खञ्जनयूनोरित्यादिना तिर्यग्जातिमत्तया विवेकशून्यत्वेऽपि प्रचुरत-
रमन्मथविकारवत्त्वेऽप्यत्यन्तगुप्तस्थलप्राप्तितिं विना खञ्जनयोरपि न रतिस्तत्र किमु वाच्यं
भवादृश्याः । समीचीनपरीक्षितसंकेतस्थलं विना रतिर्नोचितेति ध्वन्यते । यद्वा मन्मथ-
विकलतया सद्यः संभोगमपेक्षमाणं नायकं नायिका वक्तीत्यपि प्रतिभाति ॥
[^१]. 'तस्मिन्निधिर्भवति मैथुनमेति यस्मिन्' इति बृहत्संहिता (४५/१२). 'यत्रा-
वनौ खञ्जनको विधत्ते रतं भवेत्तत्र महानिधानम्' इति वसन्तराजः (१०।२५).
वदतु । ओजः । यद्वशात्सर्वेऽपि बिभ्यति । पक्षे प्रसादविशेषः । हीयताम् । तदपि स
नायकः । सुधांशुर्भूछायामिव । एवं च त्यागानर्हत्वं ध्वन्यते । पक्षे सुधांशुतुल्यः । एवं
च स्पृहणीयत्वमावेद्यते । त्वां न मुञ्चति त्यक्ष्यति । यद्वा पूर्वोत्तरमेतत् ॥
मामियं दुर्वचनैर्दुःखयतीति वादिनं नायकं प्रति नायिकासखी तवैवायमपराधो न
त्वस्या इति वक्ति--
अतिचापलं वितन्वन्नन्तर्निविशन्नि
मुखरयसि स्वयमेतां सद्वृत्तां शङ्कुरिव घण्टाम् ॥ ६ ॥
अतीति । अन्तर्निविशन्हृदयमध्ये प्रविशन् । तया
मतः साधुत्वं प्रदर्श्य हृदयं प्रविश्यैतादृशाचरणं करोषीत्यत्यन्तानुचितकारित्वं तवेत्य-
र्थः । पक्षेऽन्तर्मध्ये । अतिचापलमन्यनायिकासंभोगादिरूपम् । पक्षे निरन्तरसंयोगवि-
भागरूपं विस्तारयन् । एवं चाज्ञानक्षमानर्हत्वं द्योत्यते । निकाममत्यन्तं काठिन्यं क-
ठिनत्वं यस्य सः । एवं च चापल्यसंपादनेऽपि नम्रत्वं न करोषीति दुःखदस्त्वमसीति
द्योत्यते । पक्षे काठिन्यमवयवसंनिवेशविशेषः । यद्वान्तः सदनमध्ये । एवं बहिः स्थितौ
चापल्यं करोषि, सदनमध्ये तु कार्कश्यमित्युभयतोऽपि दुःखदस्त्वमिति द्योत्यते । स्वयं
त्वमेव । सद्वृत्तां सच्चरिताम् । एवं च तवासच्चरितं विलोक्यावश्यमेतस्या दुःखं भव-
तीति भावः । पक्षे समीचीनवर्तुलां लोहकीलो घण्टामिवैनां मुखरयसि । एवं च तवै-
वायमपराधो न तस्या इति भावः ॥
क्वचिद्यूनोः संकेतनिकेतनाभावादेव न संगम इति
अङ्गेषु जीर्यति परं खञ्जनयूनोर्मनोभवप्रसरः ।
अङ्गेष्विति । खञ्जनयूनोः परमुत्कृष्टं मनोभवस्य । एवं च सर्वत्र बाधाकारित्वं ध्व-
न्यते । प्रसर आधिक्यमङ्गेषु जीर्यति समाप्तं भवति । यद्वा परं केवलं जीर्यतीति यो-
जना । परं तु नान्तर्गर्भितो निधिर्यत्रैतादृशे धरामण्डले केलिर्न । निधिमत्प्रदेश एव
खञ्जनयोः संभोग इति
नायिकामुपदिशति । खञ्जनयूनोरित्यादिना तिर्यग्जातिमत्तया विवेकशून्यत्वेऽपि प्रचुरत-
रमन्मथविकारवत्त्वेऽप्यत्यन्तगुप्तस्थलप्राप्