2023-03-08 06:13:56 by Pathan Vali Khan
This page has not been fully proofread.
मौढ्यम्, अत एव मनःप्रातिकूल्यम्, किं करिष्यत्ययमतः परं ममेत्यविनीततामकरोत् ।
सपत्नीतारुण्योद्गमसमय एवायमस्यामत्यन्तासतः स्यादिति भियातिवात्सल्यादीति
भावः । एवं च त्वयाप्येवं विधेयमतोऽधुनासूयादिकरणमनर्थकमिति द्योयते । यद्वा ना-
यिकाक्लेशशालिनं कंचन कश्चिद्विवाहान्तरकरणमुपदिशति । एवं च सपत्न्यां जातायामि-
यमवश्यमत्यन्तानुकूल्यमाचरिष्यतीति ध्वन्यते । काचित्कस्याश्चिद्वृत्तं वक्तीति ऋजवः ॥
कश्चिद्द्रव्योन्मादवतीं निजकुलद्वेषिणीमन्योक्त्या वक्ति--
अयि कूलनिचुलमूलोच्छेदनदुःशीलवीचिवाचाले ।
बकविघसपङ्कसारा न चिरात्कावेरि भवितासि ॥ ३ ॥
अयीति । अयि । कूलनिचुलस्तीरवृक्षः । यद्वा 'निचुलोऽम्बुजः' इत्यमराद्वृक्षविशे-
षः । एवं च तत्प्रतिपालनमुचितमित्यावेद्यते । तस्य यन्मूलोच्छेदनम् । एवं चासत्यत्वं
ध्वन्यते । तत्र दुःशीलास्तत्कारिण्यो लहर्यस्ताभिः कुत्सितबहुभाषिणि । कावेरि । ब-
कस्य । न तु हंसादेः । विघसो भोजनशेषो यः पङ्कः । क्षुद्रमत्स्यादेर्बकभुक्तत्वादिति
भावः । स एव सारो यस्याः । न चिरात् । शीघ्रमेव । भवितासि । एवं च परोपका-
रकारकस्य स्वकुलप्रभवस्योन्मादवशान्मम दुःखं ददासि तत्ते दुष्टभोजनावशेषद्रव्यं शी-
घ्रमेव गमिष्यतीति धन्यते ॥
काचिन्नायिका परपुरुषसंगमाय प्रलोभकारिणीं दूतीं प्रत्याह--
अयि विविधवचनरचने ददासि चन्द्रं करे समानीय ।
व्यसनदिवसेषु दूति क्व पुनस्त्वं दर्शनीयासि ॥ ४ ॥
अयीति । हे दूति । एवं च स्वकार्यमात्रसंपादकत्वम्, न त्वन्यदीयाग्रिमाकार्यवि
चारकारित्वमिति द्योत्यते । नानाप्रकारशालिवचनरचने । एवं च प्रलोभनकारित्वम्,
वञ्चनानिपुणत्वम्, विश्वासानर्हत्वम्, उत्तरप्रत्युत्तरकरणानर्हत्वं च ध्वन्यते । चन्द्रं समानीय
करे ददासि करगोचरं करोषि । असंभाविनमप्यर्थं जातप्रायं कृत्वा प्रदर्शयसीति भावः । व्य-
सनमपकीर्त्यादि । तत्काले त्वं कुत्र दर्शनीयासि । एवं च त्वया घटनामात्रं कर्तुं शक्यम्,
न त्वपकीर्त्यादिनिवारणमिति भावः । यद्वा भाविवियोगभीता नायिका संघटनमात्रका-
रिणीं दूतीं प्रत्याह । विविधवचनरचने इत्यनेन दुष्प्रापोऽपि नायकस्त्वया समानेतुं
शक्य इति द्योयते । चन्द्रमित्यनेनाह्लादजनकतयावश्यस्पृहणीयत्वमावेद्यते । व्यसनम् ।
वियोगदुःखदत्वादिति भावः । त्वं कुत्र दर्शनीयासि । एवं चाग्रे यथा वियोगो न भवि-
ष्यति तथा यदि त्वया कर्तुं शक्यं तर्हि त्वदुदीरितं संपादयामीति द्योत्यते ॥
अपकीर्त्यादिना स्वपरित्यागं संभावयन्तीं नायिकां दूती समाधत्ते--
अस्तु म्लानिर्लोको लाञ्छनमपदिशतु हीयतामोजः
तदपि न मुञ्चति स त्वां वसुधाछायामिव सुधांशुः ॥ ५ ॥