This page has been fully proofread once and needs a second look.

एवं च रसस्य प्राणरूपत्वं ध्वन्यते । एवं च निरलंकारस्यापि काव्यत्वमिति मिश्ररुचि-
नाथमतेन । अत एव ताभ्यां 'मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः । येनैकचुलके
दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ॥' इति निरलंकारोदाहरणमभ्यधायि । वस्तुतस्त्वेतदुभयोदा-
हृतपद्येऽपि सर्वालंकारमौलिमणिरूपातिशयोक्तेर्विद्यमानत्वात् । उक्तिवैचित्र्यरूपालंकार-
विरहे काव्यत्वस्यासंभवात् । 'काव्यं ग्राह्यमलंकारात्' इत्यलंकारस्य काव्यव्यवहारप्र-
योजकत्वाभिधानाच्च । रसवति काव्ये स्फुटालंकारराहित्येऽपि न चमत्कारहानिरिति
रसवत्त्वस्याधिक्यप्रतिपादनमात्रे तात्पर्यम् । 'अकलित--' इत्यादि पद्ये शृङ्गारोत्कर्ष-
मात्रस्य प्राधान्यमित्यर्थः । अत्र तु रसमात्रस्य तदिति भावः ॥
 
इति श्रीमद्गोदावरीपरिसरालंकृतपुण्य स्तम्भस्थितिविराजमाननीलकण्ठपण्डिततनूज-
बालोपण्डितात्मजतिमाजीपण्डिताङ्गजानन्तपण्डितविरचितगोवर्धनसप्तशती-
व्यङ्ग्यार्थदीपने ग्रन्थारम्भोचितव्रज्याव्याख्या समाप्ता ।
-------------
 
अकारव्रज्या ।
 
कश्चिद्यौवनभराक्रान्तां प्रपापालिकामालोक्य तां प्रत्याह--
 
अवधिदिनावधिजीवाः प्रसीद जीवन्तु पथिकजनजायाः ।
दुर्लङ्घ्यवर्त्मशैलौ स्तनौ पिधेहि प्रपापालि ॥ १ ॥
 
अवधीति । प्रपा जलदानस्थानं तद्रक्षणकर्त्रि । एवं च धार्मिकत्वं व्यज्यते । तेन च
पथिकजनजाया न हन्तव्येत्युपदेशदानयोग्यत्वम् । जीवनरक्षणकर्त्र्या जीवनविनाशकर्तृ-
त्वमनुचितमिति वा व्यज्यते । प्रसीद । एवं च बलात्कारानर्हत्वं ध्वन्यते । किं प्रसन्न-
तायाः फलमित्यत आह--स्तनौ पिधेहि । मार्गान्तरेणानेनैव वा मार्गेण झटिति कुतो
न गम्यत इत्यत्र हेतुगर्भविशेषणमाह--दुर्लङ्घ्यौ च तौ वर्त्मशैलौ च । एवं च मार्गा-
न्तराभावादुल्लङ्घयितुमशक्यत्वाच्चैतत्पिधानमावश्यकमिति द्योत्यते । किं पिधानफलमत
आह--अवधिदिनावधि जीवो जीवनं यासां ताः पथिकजनजाया जीवन्तु । एवं च
त्वत्कुचकनकमहीधरदर्शनलुब्धैः पथिकैरत्रैव कालातिवाहने कृतेऽवधिदिनातिक्रमे त
त्कामिनीजनस्य मरणमेव भविष्यतीति भावः ॥
 
कृतपरिणयान्तरं नायकमसूयमानां नायिकां काचिदुपदिशति--
 
अतिवत्सला सुशीला सेवाचतुरा मनोऽनुकूला च ।
अजनि विनीता गृहिणी सपदि सपत्नीस्तनोद्भेदे ॥ २ ॥
 
अतीति । गृहिणी प्रथमस्त्री । सपत्नीस्तनप्रादुर्भावे सपदि । एवं च किंचिद्विलम्बे को
वेद किं भविष्यतीति भीतिशालित्वं ध्वन्यते । अतिस्नेहवती । समीचीनस्वभावा । से-
वानिपुणा । नायकमनोगतकारिणी नम्रा च । जाता । एवं च पूर्वं सपत्नीसंपादनदु:-
खवत्तया न्यूनस्नेहम्, सपत्नीतर्जनादिना दुःशीलताम्, इयमेव सेवां करिष्यतीति सेवा-