This page has not been fully proofread.

ध्वन्यते । विशदाः । प्रसादरूपगुणवत्यः । पक्ष उज्वलवेषाः । आर्याः । आर्या इति च्छ-
न्दोनाम । पक्षे श्रेष्ठाः । गोवर्धनस्य । गोवर्धन इति कविनाम ॥
 
[^१]वाणी प्राकृतसमुचितरसा बलेनैव संस्कृतं नीता ।
निम्नानुरूपनीरा कलिन्दकन्येव गगनतलम् ॥ ५२ ॥
 
वाणीति । वाणी । प्राकृतकाव्ये सम्यगुचितो रसो यस्याः । एतादृश्येव बलेन ब-
लात्कारेण । पक्षे बलरामेण । एवकारोऽत्रैवान्वेति । संस्कृतं नीता । निम्नानुगामिस्व-
भावजला कालिन्दी गगनतलमिव । एवं च प्राकृतकाव्ये सुरसतासंपादनं सुगमतरम्,
संस्कृतकाव्ये तत्कठिनतरमिति द्योत्यते । तेन स्वयं तत्संपादनेन स्वस्मिन्नाधिक्यमावे-
द्यते । यद्वा वाण्याः स्वभाव एवायं यत्प्राकृतकाव्ये सरसतामाप्नोतीति प्राकृतकाव्यक-
रणादर एव समुचितः, तथापि संस्कृतकाव्य एवादरो मया विहितस्तत्र कदाचिद्यदि त-
थाविधसुरसताभावो भविष्यति स च तत्रभवद्भिः क्षन्तव्य इति ध्वन्यते । अथवा
प्राकृतकाव्यसमुचितरसा वाणी प्राकृतसमुचितरसैव । प्राकृतानां साधारणजनानां समु-
चितः । सुखावह इत्यर्थः । रसो यस्याः । अतो बलेन प्राकृतसप्तशत्यादितिरस्कारेण
संस्कृतं नीता । यद्वा प्राकृते साधारणजने सम्यगुचितः । अत्यन्त इत्यर्थः । रसः प्री-
तिर्यस्याः । एतादृश्यपि बलात्कारेण संस्कृतं साधुरूपं प्रापिता । एवं च नीचाभिलाषि-
ण्याः सद्वृत्ततासंपादनं पुरुषार्थ इति भावः । निम्नानुरूपनीरा कलिन्दकन्येव । एवं च
विवेकशून्यत्वं ध्वन्यते । तेन नीचानुगामि रसशालितायोग्यत्वम् । गगनतलमत्युच्चदेशं
नीता । एवं च प्राकृतसंस्कृतयोर्भूतलगगनतलतुल्यताप्रतिपादनेन प्राकृतात्संस्कृतेऽत्य-
न्ताधिक्यमावेद्यते ॥
 
आर्यासप्तशतीयं प्रगल्भमनसामनादृता येषाम् ।
दूतीरहिता इव ते न कामिनीमनसि निविशन्ते ॥ ५३ ॥
 
आर्येति । इयमार्याणां सप्तशती येषां प्रगल्भमनसाम् । यैः प्रगल्भमनोभिरित्यर्थः ।
एवं चाप्रगल्भमनोभिरादरेऽनादरे वा कृते न किंचित्फलमिति भावः । दूतीरहिता
इव तेन कामिनीमनसि निविशन्ते । एवं चेतोऽन्यन्न किंचिच्चातुर्यजनकमिति व्यज्यते ॥
 
रतरीतिवीतवसना प्रियेव शुद्धापि वाङ्मुदे सरसा।
अरसा सालंकृतिरपि न रोचते शालभञ्जीव ॥ ५४ ॥
 
रतरीतीति । रतरीतौ वीतं वसनं यस्याः सा । रसाविर्भावादिति भावः । एवं चालं-
कारभ्रंशादेः का वार्तेति भावः । प्रियेव शुद्धापि । अनुप्रासोपमाद्यलंकाररहितापि ।
वाणी संतोषाय । अत्र हेतुमाह--सरसा शृङ्गारादिमती । पक्षे शृङ्गाररसवती । रस-
शून्यालंकृतियुतापि । पक्षे कटककुण्डलयुतापि । शालभञ्जीव प्रतिमेव । न रोचते ।
-----------------------------------------------------------------------------------------
[^१]. हालापरनाम्ना सातवाहनकविना प्रणीतां प्राकृतगाथासप्तशती मालोक्येयं सप्तशती
श्रीगोवर्धनाचार्येण प्रणीतेति वाणीत्याद्यार्यया सूचितम्.
 
O