This page has not been fully proofread.

सूचितमित्यर्थः । एवं च लज्जावत्त्वेन प्राकट्यसंपादनायोग्यत्वम् । अत्र बालापदेना-
ल्पवयस्काभिधीयते । न स्वीयाभेदरूपा । असतीत्याद्यर्थविरोधात् । सख्या असतीत्वे-
ऽपि नायिकायाः स्वीयत्वाक्षतिरित्यपि केचित् । असत्या नेत्रत्रिभागेण बहुलनेत्रव्या-
पारेण कृतभाष्यम् । कृतकिंचित्प्राकट्यम् । दूतीव्याख्यातम् । दूत्या वचनवृत्त्याभिहि-
तम् । भावमभिप्रायम् । कविमाणवकाः कवयो माणवका इव । एवं चाज्ञत्वं द्योयते ।
अधीयते । एवं चातितीक्ष्णमतिभिः सूत्रेण ततोऽल्पमतिभिर्व्याख्यानेन यथावबुद्ध्यते
ग्रन्थादि तथा तीक्ष्णमतिभिः कैश्चित्कविभिः स्वल्पव्यवहारज्ञानेन ततोऽल्पमतिभिरधि-
कतरज्ञानेन काव्यं क्रियत इति व्यवहारज्ञानं न कुत्रापि व्यभिचरतीति ध्वन्यते ।
यद्वान्यप्रमेयहरणशीलान्कवीन्निन्दति । दूतीव्याख्यातमित्यनेनैतस्मात्पदादयमर्थो बोध्य
इति नियमसहायशक्तिविषयमिति व्यज्यते । शक्तेरतिस्थूलमतिविषयत्वात् । अस-
तीनेत्रत्रिभागकृतभाष्यमित्यनेन जघन्यलक्षणावृत्तिविषयमिति द्योयते । लक्षणावृत्तेः
किंचित्स्थूलमतिविषयत्वात् । बालाकटाक्षसूत्रितमित्यनेन व्यञ्जनावृत्तिविषयमिति व्य-
ज्यते । व्यञ्जनावृत्तेरतिसूक्ष्ममतिविषयत्वात् । भावमर्थम् । अर्थादन्यकविनिबद्धम् । ये-
ऽधीयते स्वकाव्यविषयीकुर्वन्ति न ते कवयः । किं तु तेषु ते बालाः । मूर्खा इत्यर्थः ।
एवं च परकाव्यस्पृष्टवाच्यलक्ष्यव्यङ्ग्यार्थास्पर्शित्वं स्वकाव्यस्य ध्वन्यते । यद्वा बाला-
कटाक्षसूचनादिव्यापारप्रकटनार्थस्य कविमाणवककाव्यविषयत्वं कवीनां त्वत्यन्तनिगू-
ढार्थोऽपि काव्यविषय इति स्वग्रन्थेऽपि निगूढार्थविषयत्वं ध्वन्यते । अथवा कवयः
सर्वे बालका इव । एवं च बालाकटाक्षसूत्रितमित्यादिना नायिकया स्वेच्छया प्रकटी-
कृतभावस्याभिज्ञत्वं कवीनाम् । न तु तदन्तर्गताभिप्रायज्ञानवत्त्वमिति नायिकाधिक्य-
वर्णनेन तद्विषयशृङ्गारवर्णनं सर्वरसवर्णनापेक्षया कठिनतरमिति व्यज्यते । तद्वत्त्वेन स्व-
ग्रन्थाधिक्यं च । अत एव 'शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धनस्पर्धी कोऽपि न वि-
श्रुतः' इत्यमाणि जयदेवेन ॥
 
स्वकीर्त्यनुवृत्तये स्वनाम दर्शन्नेवेतरार्यावैलक्षण्यं स्वार्यास्वाह--
 
मसृणपदरीतिगतयः सज्जनहृदयाभिसारिकाः सुरसाः ।
मदनाद्वयोपनिषदो विशदा गोवर्धनस्यार्याः ॥ ५१ ॥
 
मसृणेति । मसृणानां स्निग्धानाम् । कोमलानामिति यावत् । पदानां विभक्त्यन्तानां
रीतिर्वैदर्भ्यादिस्तस्या गतिः प्राप्तिर्यासु ताः । तद्वत्य इत्यर्थः । पक्षे कोमलचरणविन्या-
सशालिगतयः । मन्थरगतय इत्यर्थः । सज्जनहृदयमनुसरन्ति । एवं च सहृदयहृदयस-
मधिगम्यार्था इति भावः । एवं च दुर्हृदयानामत्र नाधिकार इति ध्वन्यते । पक्षे
सज्जनस्य हृदयमभिसारयन्ति । स्वाधीनताभाजनं कुर्वन्ति ताः । सुष्ठु रसः शृङ्गारा-
दिर्यासु ताः । पक्ष आसक्तिविशेषवत्यः । मदनाद्वैतोपनिषदः । उपनिषद इत्यनेन
मदनोद्दीपकतातिशयशालित्वमावेद्यते । पक्षे संनिधिमदनसत्त्वोक्त्या तस्मिन्नाज्ञाकारित्वं