This page has not been fully proofread.

तन्न । गुणीभूतव्यङ्ग्यादेरपि हृदयाह्लादजनकत्वात् । पक्षे शिञ्जितशून्यम् । पदग्रहप-
रमनुप्रासमात्रार्थे पदग्रहः परमुत्कृष्टो यत्र । पक्षेऽत्यन्तचरणसंलग्नम् । काव्यमभि-
ज्ञसभायाम् । एवं चानभिज्ञसभायां हृदयाद्यानन्दजनकत्वेऽपि न किंचित्फलमिति भा-
वः । हृदयं वा न मदयति, श्रवणं वा न मदयति । एवं च श्रोतुरुभयान्यतरदप्यानन्देन
विषयान्तरस्फूर्तिशून्यं न करोतीति भावः । अत्र हृदयं श्रवणं वा न मदयतीत्येतावतैव
सिद्धे द्वितीयः 'न वा' इत्यस्य न तथा प्रयोजनमाभाति । श्रवणं श्रोतुर्हदयं वक्तुर्न मदय-
ति । 'आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम्' इत्याद्युक्तेरिति व्याख्याने
वाकारद्वयनञ्द्वययोरानर्थक्यमाभाति । मञ्जीरं क्रीडाकाले न मदनाविर्भाववन्तं करो-
तीत्यर्थः । काव्यं हृदयं न मदयति मञ्जीरं श्रवणं न मदयतीति व्याख्यायां वाकारद्वय-
मनर्थकमाभाति । अत्रेदमवधेयम्--व्यङ्ग्यार्थशून्यं काव्यमेव नास्ति । न च 'अव्यङ्ग्यं
त्ववरं स्मृतम्' इत्युक्त्या व्यङ्ग्यात्यन्ताभाववत्यपि काव्यत्वमस्तीति वाच्यम् । तदुदाहरणे
'स्वच्छन्द--' इत्यादि पद्ये मन्दाकिनीविषयकरत्याख्यभावादिव्यङ्ग्यस्य सत्त्वात् । किं
बहुना । 'स कोऽपि विषयो नास्ति यत्र व्यङ्ग्यं न भासते । समयादेर्विशेषस्य ह्यभावे
हेतुता मता ॥' अत एव 'प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थितेः । उभे काव्ये त-
दन्यद्यत्तच्चित्रमभिधीयते ॥' इति ध्वनिकृता [श्रीमदानन्दवर्धनाचार्येण] अभ्यधायि ।
यद्वा काव्यं काव्यत्वाभिमतम् ॥
 
आस्वादितदयिताधरसुधारसस्यैव सूक्तयो मधुराः ।
अकलितरसालमुकुलो न कोकिल: कलमुदञ्चयति ॥ ४९ ॥
 
आस्वादितेति । आस्वादितः । न तु पीतः । एवं चाधरपानेऽत्यन्ताधरपाने वा कीदृ-
ङ्माधुर्यमुत्पत्स्यत इति न विद्म इति भावः । दयिताधररूपसुधारसो येन तस्यैव । एवं
च नान्यस्येति भावः । यद्वा मधुरा एवेति योज्यम् । एवं चामधुराणां व्यवच्छेदः ।
यद्वास्वादितो दयिताधरसुधारसो येन तस्यैव । एवं च नृदेहेन दयिताधरपानं वि-
धाय पश्चाद्देवरूपेणामृतं निपीयैतदुभयाधिकतररसवत्काव्येच्छया कविर्भवतीति भावः ।
एवं च दयिताधरास्वादादेर्हेतुत्वप्रतिपादनादवाप्तकार्यस्य कारणेऽनादरवत्काव्यास्वादवतः
सकलविषयास्वादमौलिभूतदयिताधररसास्वादादावप्यनादर इति द्योत्यते । एवं च का-
व्यास्वादे ब्रह्मरसरूपता द्योत्यते । सूक्तयः काव्यानि । मधुराः । एवं च दयिताधरसुधा-
रसयोरधिकतरत्वस्य काव्यसामान्येऽभिधानेन तद्विशेषोत्तमकाव्येऽत्यन्तविशेषस्ततो
ध्वन्यते । अत्र दृष्टान्तमाह--अनास्वादितचूतमुकुलः । मुकुलपदेन रससंभृतत्वं
व्यज्यते । कोकिलः कलं मधुरं न वदति । यद्वा सूक्तय उत्तमकाव्यानि ॥
 
बालाकटाक्षसूत्रितमसतीनेत्रत्रिभागकृतभाष्यम् ।
कविमाणवका दूतीव्याख्यातमधीयते भावम् ॥ ५० ॥
 
बालेति । लोकव्यवहारज्ञानस्य काव्यहेतुत्वमित्याह--बालायाः कटाक्षेण सूत्रितम् ।