2023-02-27 22:09:59 by ambuda-bot
This page has not been fully proofread.
आर्यासप्तशती ।
तन्न । गुणीभूतव्यङ्गयादेरपि हृदयाह्लादजनकत्वात् । पक्षे शिञ्जितशून्यम् । पदग्रहप-
रमनुप्रासमात्रार्थे पदग्रहः परमुत्कृष्टो यत्र । पक्षेऽत्यन्तचरणसंलग्नम् । काव्यमभि-
ज्ञसभायाम् । एवं चानभिज्ञसभायां हृदयाद्यानन्दजनकत्वेऽपि न किंचित्फलमिति भा
वः । हृदयं वा न मदयति, श्रवणं वा न मदयति । एवं च श्रोतुरुभयान्यतरदप्यानन्देन
विषयान्तरस्फूर्तिशून्यं न करोतीति भावः । अत्र हृदयं श्रवणं वा न मदयतीत्येतावतैव
सिद्धे द्वितीयः 'न वा' इत्यस्य न तथा प्रयोजनमाभाति । श्रवणं श्रोतुर्हदयं वक्तुर्न मदय-
ति । 'आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम्' इत्याद्युरिति व्याख्याने
वाकारद्वयनञ्वययोरानर्थंक्यमाभाति । मञ्जीरं क्रीडाकाले न मदनाविर्भाववन्तं करो-
तीत्यर्थः । काव्यं हृदयं न मदयति मञ्जीरं श्रवणं न मदयतीति व्याख्यायां वाकारद्वय-
मनर्थकमाभाति । अत्रेदमवधेयम् –व्यङ्गयार्थशून्यं काव्यमेव नास्ति । न च अव्यङ्ग्यं
त्ववरं स्मृतम्' इत्युक्त्या व्यङ्ग्यात्यन्ताभाववत्यपि काव्यत्वमस्तीति वाच्यम् । तदुदाहरणे
'स्वच्छन्द -' इत्यादि पद्ये मन्दाकिनी विषयकरत्याख्यभावादिव्यङ्ग्यस्य सत्त्वात् । किं
बहुना । 'स कोऽपि विषयो नास्ति यत्र व्यङ्ग्यं न भासते । समयादेर्विशेषस्य ह्यभावे
हेतुता मता ॥' अत एव 'प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थितेः । उभे काव्ये त
दन्यद्यत्तच्चित्रमभिधीयते ॥" इति ध्वनिकृता [श्रीमदानन्दवर्धनाचार्येण] अभ्यधायि ।
यद्वा काव्यं काव्यत्वाभिमतम् ॥
आस्वादितदयिताघरसुधारसस्यैव सूक्तयो मधुराः ।
अकलितरसालमुकुलो न कोकिल: कलमुदञ्चयति ॥ ४९ ॥
आखादितेति । आखादितः । न तु पीतः । एवं चाधरपानेऽत्यन्ताधरपाने वा कीदृ-
ङ्याधुर्यमुत्पत्स्यत इति न विद्म इति भावः । दयिताधररूपसुधारसो येन तस्यैव । एवं
च नान्यस्येति भावः । यद्वा मधुरा एवेति योज्यम् । एवं चामधुराणां व्यवच्छेदः ।
यद्वाखादितो दयिताधरसुधारसो येन तस्यैव । एवं च नृदेहेन दयिताधरपानं वि-
धाय पश्चाद्देवरूपेणामृतं निपीयैतदुभयाधिकतररसवत्काव्येच्छया कविर्भवतीति भावः ।
एवं च दयिताधराखादादेर्हेतुत्वप्रतिपादनादवाप्तकार्यस्य कारणेऽनादरवत्काव्याखादवतः
सकलविषयाखाद मौलिभूतदयिताधररसाखादादावप्यनादर इति द्योत्यते । एवं च का-
व्याखादे ब्रह्मरसरूपता द्योत्यते । सूक्तयः काव्यानि । मधुराः । एवं च दयिताधरसुधा-
रसयोरधिकतरत्वस्य काव्यसामान्येऽभिधानेन तद्विशेषोत्तमकाव्येऽत्यन्तविशेषस्ततो
ध्वन्यते । अत्र दृष्टान्तमाह
- अनाखादितचूतमुकुलः । मुकुलपदेन रससंभृतत्वं
व्यज्यते । कोकिलः कलं मधुरं न वदति । यद्वा सूक्तय उत्तमकाव्यानि ॥
बाला कटाक्षसूत्रितमसतीनेत्रत्रिभागकृतभाष्यम् ।
कविमाणवका दूतीव्याख्यातमधीयते भावम् ॥ ५० ॥ DE
बालेति । लोकव्यवहारज्ञानस्य काव्यहेतुत्वमित्याह – बालायाः कटाक्षेण सूत्रितम् ।
Sri Gargishwari Digital Foundation