2023-03-26 07:04:12 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
हरिचरणाञ्जलिममलं कविवरहर्षाय बुद्धिमान्सततम् ।
अकृतार्यासप्तशतीमेतां गोवर्धनाचार्यः ॥ ७०२ ॥
हरीति । मतिमान्गोवर्धनाचार्यो हरिचरणयोरञ्जलिम् । प्रणाममित्यर्थः । विरचय्येति
भावः । सततं कविश्रेष्ठसंतोषाय । एवं चापकृष्टकवीनामसंतोषे न काचित्क्षतिरिति भावः ।
अमलं यथा भवति तथैतां सप्तशतीमकृत । अत्रापरोक्षेऽपि परोक्षवन्निर्देशेनौद्धत्याभावो
व्यज्यते । यद्वा मतिमान् । एवं च सप्तशत्या भगवदर्पणकरणं समुचितमेतस्येति भावः ।
गोवर्धनाचार्यः सततं कविवरहर्षाय । स्थितामिति शेषः । एतामार्यासप्तशतीममलं
स्वच्छं हरिचरणयोरञ्जलिं पुष्पाञ्जलिमकृत । एतत्पक्षेऽपि मया कृतेति वचनाभाव आ-
चार्यस्य विनयवत्तामावेदयति । अत्र भामा सत्यभामेति वदञ्जलिः पुष्पाञ्जलि: । तात्प-
र्यान्यथानुपपत्त्या लक्षणेति वा । तद्ग्राहकं चामलपदम् ॥
अर्थागमे सरणिरत्र बहुप्रकारा संदृश्यते तदपि निर्वहणक्षमेयम् ।
मद्दर्शिता रसवती निखिलावदातसाहित्यशालिविबुधैः परिशीलनीया ॥
ब्रह्मैवास्ति रसस्तदर्थकगिरो वेदान्तभागाः परं
ज्ञात्वैवं निरमायि यन्निजधिया विस्तारहीनं मया ।
तद्गोवर्धनवाचि साचिरचनं व्यङ्ग्यार्थसंदीपनं
सीतासंयुतरामचन्द्रचरणाम्भोजे चिरं तिष्ठतु ॥
अब्दे लोचनबिन्दुसप्तशशभृत्प्रस्तारसंलक्षिते (१७०२)
चैत्रे मासि सिते शिवस्य दिवसे मार्तण्डसद्वासरे ।
पुण्यस्तम्भनिवासिना सुमतिनानन्ताभिधेनादरा-
त्काश्यां सद्विदुषामकारि कुतुकाद्व्यङ्ग्यार्थसंदीपनम् ॥
कदाचित् कस्मिंश्चिद्वचसि यदि वार्थे मम भवे-
द्भ्रमः सोऽयं सद्भिर्न खलु गणनीयो निजहृदि ।
भ्रमाभावं यस्मिन्निखिलनिगमोऽप्याह सततं
स एवैको यस्माज्जगति जगदीशो रघुपतिः ।
[^१]ग्रन्थोऽयं विदुषा सृष्टः पण्डितानन्तशर्मणा ।
खद्वयाश्वसमुद्राख्य(४७००) संख्यको व्यङ्ग्यदीपकः ॥
इति श्रीमद्गोदावरीपरिसरालंकृतपुण्यस्तम्भस्थितिविराजमाननीलकण्ठपण्डिततनूज-
बालोपण्डितात्मजतिमाजीपण्डिताङ्गजानन्तपण्डितविरचित-
व्यङ्ग्यार्थदीपनसमेता श्रीमद्गोवर्धनाचार्यकृता
आर्यासप्तशती समाप्ता ।
----------------------------
----------------------------
-----------------------------------------------------------------------------------------
[^१]. अयं श्लोकः केषुचित्पुस्तकेषु न दृश्यते.