This page has not been fully proofread.

२३२
 
काव्यमाला ।
 
हरिचरणाञ्जलिममलं कविवरहर्षाय बुद्धिमान्सततम् ।

अकृतार्यासप्तशतीमेतां गोवर्धनाचार्यः ॥ ७०२ ॥
 

 
हरीति । मतिमान्गोवर्धनाचार्यो हरिचरणयोरञ्जलिम् । प्रणाममित्यर्थः । विरचय्येति

भावः । सततं कविश्रेष्ठसंतोषाय । एवं चापकृष्टकवीनामसंतोषे न काचित्क्षतिरिति भावः ।

अमलं यथा भवति तथैतां सप्तशतीमकृत । अत्रापरोक्षेऽपि परोक्षवन्निर्देशेनौद्ध त्याभावो

व्यज्यते । यद्वा मतिमान् । एवं च सप्तशत्या भगवदर्पणकरणं समुचित मेतस्येति भावः ।

गोवर्धनाचार्यः सततं कविव इर्षाय । स्थितामिति शेषः । एतामार्यासप्तशती ममलं

स्वच्छं हरिचरणयोरञ्जलिं पुष्पाञ्जलिमकृत । एतत्पक्षेऽपि मया कृतेति वचनाभाव आ

चार्यस्य विनयवत्तामावेदयति । अत्र भामा सत्यभामेति वदञ्जलिः पुष्पाञ्जलि: । तात्प-

र्यान्यथानुपपत्त्या लक्षणेति वा । तद्ब्राहकं चामलपदम् ॥
 

 
अर्थागमे सरणिरत्र बहुप्रकारा संदृश्यते तदपि निर्वहणक्षमेयम् ।

मद्दशिता रसवती निखिलावदात साहित्यशालि विबुधैः परिशीलनीया ॥

 
ब्रह्मैवास्ति रसस्तदर्थकगिरो वेदान्तभागाः परं
 

ज्ञात्वैवं निरमायि यन्निजधिया विस्तारहीनं मया ।

तद्गोवर्धनवाचि साचिरचनं व्यङ्गथार्थसंदीपनं
 

सीता संयुतरामचन्द्रचरणाम्भोजे चिरं तिष्ठतु ॥

 
अब्दे लोचनबिन्दुसप्तशशभृत्प्रस्तारसंलक्षिते (१७०२)

चैत्रे मासि सिते शिवस्य दिवसे मार्तण्डसद्वासरे ।

पुण्यस्तम्भनिवासिना सुमतिनानन्ताभिधेनादरा-

त्काश्यां सद्विदुषामकारि कुतुकाव्ययार्थसंदीपनम् ॥

 
कदाचित्कस्मिंश्चिद्वचसि यदि वायें मम भवे-

अमः सोऽयं सद्भिर्न खलु गणनीयो निजहृदि ।

भ्रमाभावं यस्मिन्निखिलनिगमोऽप्याह सततं
 

स एवैको यस्माजगति जगदीशो रघुपतिः ।

ग्रन्थोऽयं विदुषा सृष्टः पण्डितानन्तशर्मणा ।

खद्वयाश्वसमुद्राख्य(४७००) संख्यको व्यङ्ग्यदीपकः ॥

 
इति श्रीमद्गोदावरीपरिसरालंकृतपुण्यस्तम्भस्थितिविराजमाननीलकण्ठपण्डिततनूज-

बालोपण्डितात्मजति माजीपण्डिताङ्गजानन्तपण्डितविरचित
 

व्यङ्ग्यार्थदीपनसमेता श्रीमद्गोवर्धनाचार्यकृता

आर्यासप्तशती समाप्ता ।
 
SGDF
 

----------------------------
----------------------------
-----------------------------------------------------------------------------------------
१. अयं श्लोकः केषुचित्पुस्तकेषु न दृश्यते. St Corgi Degisi Faiendation