2023-03-08 04:57:26 by Pathan Vali Khan
This page has not been fully proofread.
खादेनेत्यर्थः । तृप्तो दयितायाः । एवं चातिस्पृहणीयत्वमधरे ध्वन्यते । अधरमप्यत्युत्कृ
ष्टतां व्यञ्जयति । नाद्रियते का सुधा दासी । एवं च माध्वीकादेः कुत्र गणनेति भावः ।
एवं च सुधातोऽधरे, ततोऽपि सत्काव्येऽधिकत्वं ध्वन्यते । एवं च स्वर्गार्थे यत्नं वि.
हाय काव्यार्थमेव स विधेय इति ध्वन्यते । अत्र च 'शरीरं तावदिष्टार्थव्यवच्छिन्ना पदा-
वली' इति दण्डिमतेनार्थविशेषविशिष्टशब्दस्यैव काव्यत्वमिति । प्रदीपकृन्मतेन च
शब्दमात्रोपादानम् ॥
अकलितशब्दालंकृतिरनुकूला स्खलितपदनिवेशापि ।
अभिसारिकेव रमयति सूक्तिः सोत्कर्षशृङ्गारा ॥ ४७ ॥
अकलितेति। न कलिता शब्दस्यालंकृतिर्यया । अनुप्रासादिशब्दालंकृतिशून्येत्यर्थः ।
एवं चार्थालंकारादिमत्त्वं व्यज्यते । पक्षेऽकलितः शब्दो ययैतादृश्यलंकृतिर्भूषणं यस्याः ।
सशब्दभूषणवत्त्वेऽन्यस्य ज्ञानं भविष्यतीति धियेति भावः । अनुकूला द्रुतं रस-
प्रत्यायिका । पक्षे नायकचित्तानुकूल्यवती । स्खलितः पददार्ढ्यशून्यः । कोमल इति
यावत् । पदानां सुप्तिङ्वतां निवेशो ग्रथनं यस्याः सा । एवं च गौडीरीतियुक्तेति ध्व-
न्यते । पक्षे स्खलितं स्थानादन्यत्र पतनम् । एवं च संकेतगमनं सत्वरमावेद्यते ।
पदनिवेशश्चरणविन्यासः । यद्वानुकूलानि स्फुटमर्थप्रतीतिजनकान्यस्खलितानि व्या-
करणनिष्पन्नानि । एवं च नेयार्थासाधुत्वशून्यत्वं द्योत्यते । यानि पदानि तत्संनि-
वेशवती । पक्षेऽनुकूलानि द्रुतं संकेतप्रापकानि स्खलनहीनानि यानि पदानि तद्वि-
न्यासवती । अपिरनास्थायाम् । एवं च गुणदोषाभावयोः संपादनेनात्यन्तमाग्रह इति
भावः । सोत्कर्षश्शृङ्गारोत्कर्षशालिशृङ्गाररसवती । पक्षेऽहमस्यायं ममेति रतिपरिपोष-
वती अभिसारिकेवाभिसरणाभिसारणान्यतरवतीव । उक्तं च--'या चार्ताभिसरेत्कान्तं
सारयेद्वाभिसारिका' इति । एवं च प्रेमातिशयो व्यज्यते । सूक्तिः काव्यम् । पक्षे शोभ-
नोक्तिमती । रमयति । एवं च काव्ये शब्दालंकृतिदोषाभावसत्त्वसंपादनमप्रयोजकम् ।
अपि तूत्कृष्टशृङ्गारसंपादनमेवोचितमिति व्यज्यते । यद्वा शब्दालंकृतिशून्या सदोषप-
दविन्यासापि सोत्कर्षशृङ्गारा सूक्ती रमयति । शब्दस्य प्राधान्यात्तदलंकारस्यावश्यक-
त्वेऽपि तदभावे दोषराहित्यस्यावश्यकत्वेऽपि केवलोत्कृष्टशृङ्गारवत्त्वेनैव चमत्काराति-
शयजनकत्वं काव्यस्येति भावः । एवं च शृङ्गारादिरसवत्त्वं काव्येऽवश्यमपेक्षितमिति
व्यज्यते । अत एव 'नीरसो हि निबन्धो यः सोऽपशब्दो महाकवेः । स तेनाकविरेव
स्यादन्येनास्मृतलक्षणः ॥' तति ध्वनिकृता रसस्य प्राधान्यमभ्यधायि । एवं च
सर्वरसप्रधानीभूतशृङ्गारवत्त्वमत्यन्तोत्कृष्टमिति तात्पर्यार्थः ॥
अध्वनि पदग्रहपरं मदयति हृदयं न वा न वा श्रवणम् ।
काव्यमभिज्ञसभायां मञ्जीरं केलिवेलायाम् ॥ ४८ ॥
अध्वनीति । अध्वनि व्यङ्गयार्थशून्यम् । यत्तु ध्वनिरुत्तमं काव्यं तद्भिन्नमित्यर्थ इति