This page has not been fully proofread.

काव्यमाला ।
 
खादेनेत्यर्थः । तृप्तो दयितायाः । एवं चातिस्पृहणीयत्वमधरे ध्वन्यते । अधरमप्यत्युत्कृ

ष्टतां व्यञ्जयति । नाद्रियते का सुधा दासी । एवं च माध्वीकादेः कुत्र गणनेति भावः ।

एवं च सुधातोऽधरे, ततोऽपि सत्काव्येऽधिकत्वं ध्वन्यते । एवं च स्वर्गार्थे यत्नं वि.

हाय काव्यार्थमेव स विधेय इति ध्वन्यते । अत्र च 'शरीरं तावदिष्टार्थव्यवच्छिन्ना पदा-

वली' इति दण्डिमतेनार्थविशेषविशिष्टशब्दस्यैव काव्यत्वमिति । प्रदीपकृन्मतेन च

शब्दमात्रोपादानम् ॥
 

 
अकलितशब्दालंकृतिरनुकूला स्खलितपदनिवेशापि ।

अभिसारिकेव रमयति सूक्तिः सोत्कर्षशृङ्गारा ॥ ४७ ॥
 

 
अकलितेति। न कलिता शब्दस्यालंकृतिर्यया । अनुप्रासादिशब्दालंकृतिशून्येत्यर्थः ।

एवं चार्थालंकारादिमत्त्वं व्यज्यते । पक्षेऽकलितः शब्दो ययैतादृश्यलंकृतिर्भूषणं यस्याः ।

सशब्दभूषणवत्त्वेऽन्यस्य ज्ञानं भविष्यतीति धियेति भावः । अनुकूला द्रुतं रस-

प्रत्यायिका । पक्षे नायकचित्तानुकूल्यवती । स्खलितः पददार्ढ्यशून्यः । कोमल इति

यावत् । पदानां सुप्तिङ्वतां निवेशो ग्रथनं यस्याः सा । एवं च गौडीरीतियुक्तेति ध्व-

न्यते । पक्षे स्खलितं स्थानादन्यत्र पतनम् । एवं च संकेतगमनं सत्वरमावेद्यते ।

पदनिवेशश्चरणविन्यासः । यद्वानुकूलानि स्फुटमर्थप्रतीतिजनकान्य स्खलितानि व्या-

करणनिष्पन्नानि । एवं च नेयार्थासाधुत्वशून्यत्वं द्योत्यते । यानि पदानि तत्संनि-

वेशवती । पक्षेऽनुकूलानि द्रुतं संकेतप्रापकानि स्खलनहीनानि यानि पदानि तद्वि-

न्यासवती । अपिरनास्थायाम् । एवं च गुणदोषाभावयोः संपादनेनात्यन्तमाग्रह इति

भावः । सोत्कर्षश्शृङ्गारोत्कर्षशालिशृङ्गाररसवती । पक्षेऽहमस्यायं ममेति रतिपरिपोष-

वती अभिसारिकेवाभिसरणाभिसारणान्यतरवतीव । उक्तं च – 'या चार्ताभिसरेत्कान्तं

सारयेद्वाभिसारिका' इति । एवं च प्रेमातिशयो व्यज्यते । सूक्तिः काव्यम् । पक्षे शोभ-

नोक्किमती । रमयति । एवं च काव्ये शब्दालंकृतिदोषाभावसत्त्व संपादनमप्रयोजकम् ।

अपि तूत्कृष्ट शृङ्गारसंपादनमेवोचितमिति व्यज्यते । यद्वा शब्दालंकृतिशून्या सदोषप-

दविन्यासापि सोत्कर्षश्शृङ्गारा सूक्ती रमयति । शब्दस्य प्राधान्यात्तदलंकारस्यावश्यक-

त्वेऽपि तदभावे दोषराहित्यस्यावश्यकत्वेऽपि केवलोत्कृष्ट शृङ्गारवत्त्वेनैव चमत्काराति-

शयजनकत्वं काव्यस्येति भावः । एवं च शृङ्गारादिरसवत्त्वं काव्येऽवश्यमपेक्षितमिति

व्यज्यते । अत एव 'नीरसो हि निबन्धो यः सोऽपशब्दो महाकवेः । स तेनाकविरेव

स्यादन्येनास्मृतलक्षणः ॥' तति ध्वनिकृता रसस्य प्राधान्यमभ्यधायि । एवं च

सर्वरसप्रधानीभूत शृङ्गारवत्त्वमत्यन्तोत्कृष्टमिति तात्पर्यार्थः ॥
 

 
अध्वनि पदग्रहपरं मदयति हृदयं न वा न वा श्रवणम् ।

काव्यमभिज्ञसभायां मजीरं केलिवेलायाम्
 

 
bangal
 

 
॥ ४८
 

 

 

 
अध्वनीति । अध्वनि व्यङ्गयार्थशून्यम् । यत्तु ध्वनिरुत्तमं काव्यं तद्भिन्नमित्यर्थं इति