This page has been fully proofread once and needs a second look.

एवं चानया विना मदनधनुरनर्थकमेवेति भावः । यद्वा पञ्चेषुरूपभ्रमरस्य हिता । एवं च
प्रसिद्धलतातिशयशालिलतात्वं नायिकायां व्यज्यते । तेन चातिकोमलाङ्गीत्वम् । श्रव-
णस्य भूषणरूपा । एवं च नायिकागुणेषु सर्वदा श्रवणेच्छाविषयत्वं ध्वन्यते । यद्वा एक-
स्याद्वितीयस्य ब्रह्मस्वरूपरसस्य । यद्वा मुख्यस्य ब्रह्मस्वरूपरसस्याध्वनि मार्गे द्वितीया ।
ब्रह्मविद्येति भावः । त्रिभुवनं सारं यया । एवं च ब्रह्मविद्ययोत्पन्नतत्त्वज्ञानस्य सर्वत्र ब्रह्म-
भावनारूपसारसाम्राज्यमिति भावः । अथवा त्रिभुवनं साररूपं यया । ब्रह्मात्मकत्वेन
निर्णयादिति भावः । स्फुटमुक्तौ चातुर्येयं सामर्थ्यं यस्याः । वाचामगोचरस्यापि प्रतिपाद-
नादिति भावः । यद्वा स्फुटम् । प्रकटतयेति यावत् । उक्तौ प्रतिपादने सामर्थ्यं यस्याः ।
अतिनिगूढस्याप्यात्मरूपरसस्य स्फुटप्रतिपादनमत्यन्तं दुष्करमिति भावः । स्फुटे प्रकटे
सर्वदा स्वप्रकाशरूपे ब्रह्मण्युक्तौ चातुर्यं यस्याः । स्वप्रकाशत्वे झटिति ज्ञानयोग्यत्वेऽपि
स्वापेक्षासंपादनेन चातुर्यवत्ता । पञ्चस्य प्रपञ्चस्य बाणरूपा ये षद्संख्याकाः कामक्रोध-
लोभमोहमदमत्सरास्तेषां पत्स्थानमज्ञानं तस्याहिता नाशिका । स्वजन्यज्ञानद्वारेति
भावः । इषुत्वेनातिदुःसहत्वम् । एभिः कृत्वैव प्रपञ्चस्यापि दुःखदत्वम् । श्रवणस्य श्रो-
तव्येत्यादिविधिविहितस्य भूषा । श्रुतिजन्यज्ञानस्यैव समीचीनत्वमिति भावः । सप्तशती
सतां हृद्यास्ताम् । एवं च रसे ब्रह्मरूपताप्रतिपादनात् सप्तशत्यां ब्रह्मविद्यात्वप्रतिपादनेन
तत्परिशीलनं सतां सर्वदा समुचितमिति ध्वन्यते । संख्याक्रमोऽप्यत्र ॥
 
स्वग्रन्थावलोकने लोकप्रवृत्त्यर्थमाधिक्यं वक्ति--
 
कविसमरसिंहनादः स्वरानुवादः सुधैकसंवादः ।
विद्वद्विनोदकन्दः संदर्भोऽयं मया सृष्टः ॥ ७०० ॥
 
कवीति । कविसङ्ग्रामे सिंहनादः । एवं चैतत्संदर्भश्रवणेऽन्यकवीनां दर्पहानिरवश्यं
भवतीति ध्वन्यते । स्वराः षड्जादय अनुवादो यस्य । एवं चैतन्माधुर्यन्यूनमाधुर्यवत्ता
षड्जादाविति भावः । सुधाया एकः संवादः साजात्यं यस्य । एतत्सजातीया सुधेति
भावः । यद्वा सुधारूप एकः सम्यग्वदनं वादो यस्य सः । एवं चैतत्संदर्भस्यैकदोच्चारणं
सुधासमसुखावहम् । वारंवारोच्चारणपरिभावनादिकं तु ब्रह्मानन्दास्वादकृदिति व्य-
ज्यते । विदुषां विनोदस्य कन्दः । एवं चैतद्ग्रन्थस्याविदुषां विनोदजनकत्वाभावे न
क्षतिरिति भावः । अयं संदर्भों मया सृष्टः ॥
 
उदयनबलभद्राभ्यां सप्तशती शिष्यसोदराभ्यां मे ।
द्यौरिव रविचन्द्राभ्यां प्रकाशिता निर्मलीकृत्य ॥ ७०१ ॥
 
उदयनेति । शिष्यसोदराभ्यामुदयनबलभद्राभ्यां सप्तशती रविचन्द्राभ्यां द्यौरिव निर्म-
लीकृत्य संशोध्य । पक्षे ध्वान्तरहितां कृत्वा । प्रकाशिता शिष्यप्रशिष्यद्वारा विस्ता-
रिता । पक्षे प्रकाशविषयीकृता । एवं च प्रथमत इयं मत्कृतिस्तत्राप्युदयनाचार्यबलभ-
द्राभ्यां संशोध्य शिष्येभ्यः पाठिता । अतोऽत्र दूषणं विभाव्योद्भावनीयमिति व्यज्यते ॥