2023-02-27 22:11:11 by ambuda-bot
This page has not been fully proofread.
२३०
काव्यमाला ।
पात्रम् । गुरुरित्यर्थः । तस्य समीपे नयनं नयः प्रापणम् । खस्येति भावः । 'समित्पाणि-
राचार्य श्रोत्रियमुपगच्छेत्' इत्यनेन गुरूपसत्तेर्विहितत्वादिति भावः । तेनोचितो योग्यः ।
प्राप्य इत्यर्थः । सत्प्रतिबिम्बनं सत्प्रतिबिम्बः समीचीनज्ञानं यस्यैतादृशम् । अभिन्नमख-
ण्डितम् । केनापि नावगणितमिति भावः । यद्वा मधुनामकदैत्याङ्गीकारकर्तुः परमेश्वरस्य
वचनं वेदान्तभाग इति भावः । एवं च सत्काव्ये भगवद्वाक्यतुल्यताप्रतिपादनेनावश्यप-
रिशीलनीयत्वंध्वन्यते । अनर्घमणितुल्यताप्रतिपादनेन चार्थप्राप्तिजनकत्वं काव्ये व्यज्यते ।
एवं च पुरुषार्थसाधनीभूततया काव्येऽवश्यविधेयत्वं ध्वन्यते ॥
एका ध्वनिद्वितीया त्रिभुवनसारा स्फुटोक्तिचातुर्या ।
पञ्चेषुषट्पदहिता भूषा श्रवणस्य सप्तशती ॥ ६९९ ॥
एकेति । एका मुख्या । ध्वननंध्वनिः । व्यञ्जनेति यावत् । सैव द्वितीया सहायभूता
यस्याः । एवं चोत्तमकाव्यमयीत्वं सप्तशत्यां ध्वन्यते । त्रिभुवनसाररूपा । यद्वा त्रिभुवने
सारं रसस्तद्वतीत्यर्थः । अथवा त्रिभुवनं सारं यथा । एवं च त्रिभुवनेऽप्येतदसत्त्वे निःसा-
रतैवासीत्, इदानीमनया सारवत्ता जातेति भावः । स्फुटमुक्तिचातुर्य यस्याम् । यद्वा
स्फुटं व्यक्तमुक्तिचातुर्ये यया । पश्चेषुर्मदनस्तद्रूपो यः षट्पदस्तस्य हिता । खकर्तव्यता-
सहायतयेति भावः । श्रवणस्य श्रोत्रस्य । सतामिति भावः । भूषा भूषणरूपा । सप्तशती ।
सप्तशतीनामकोऽयं ग्रन्थ आस्ताम् । एवं च सद्भिरियं सप्तशती श्रोतव्येति प्रार्थना व्य-
ज्यते । पञ्चेषुषट्पदहिता श्रवणस्य भूषेत्यनेन सप्तशत्यां मञ्जरीत्वं व्यज्यते । यद्वा सप्त-
शत्यां नायिकात्वारोपणेनावश्यस्पृहणीयत्वं व्यनक्ति । सप्तशती । सतां हृद्यास्तामित्य-
ध्याहारेण योजना । ए हर्योदरे। एकारस्य हर्म्यादरवाचकत्वमेकाक्षरनिघण्टेऽवसेयम् ।
अव्ययत्वाच्चास्य सर्वलिङ्गसवविभक्तितुल्यत्वम् । कस्य सुखस्याध्वनि मार्गे द्वितीया ।
नानया विना गृहान्तर्वतिसुखमार्ग इति भावः । एवं च गार्हस्थ्यसुखेच्छावतेयमवश्यं से-
वनीयेति व्यज्यते । त्रिभुवने सारभूता। बहुविधव्ययाया संसाध्ययागादिजन्यस्वर्गादावपि
नायिकैव भोगेषु मुख्येति भावः । यद्वात्रेः सकाशाद्भवतीत्यत्रिभु चान्द्रं ज्योतिस्तस्य वनं
समूहस्तस्य साररूपा । एवं चेयं चन्द्रसारैर्निर्मितेति भावः । एवं चान्योपायासाध्यतापो-
पशामकत्वमावेद्यते । यद्वा त्रिभुवनं सारं यया । एवं च नायिकासांनिध्ये सारासाररूप-
स्यापि त्रिभुवनस्य साररूपतैव भवतीति व्यज्यते । स्फुटमुक्तिचातुर्ये यस्याः । स्फुटमित्य-
नेन निःसंदिग्धत्वं ध्वन्यते । यद्वा स्फुटा सप्रसादोक्तिर्यस्य । प्रसन्नार्थकोक्तिशालिनि
नायके चातुर्ये यस्याः । एवं चानभिज्ञनायकं प्रति यदि न कामिनी चमत्कारकारिणी
तदा न काचित्क्षतिरिति भावः । यद्वास्फुटोक्ती वक्रोक्तौ चातुर्य यस्याः । पञ्चेषोर्मद-
नस्य षइभिः संधिविग्रहयानासनद्वैधीभावाश्रयरूपोपायैः पदाय वृद्धिरूपाय हिता । का-
मोऽप्येनामेवासाद्य संध्याद्युपायैर्जगजयवत्तया वृद्धिभाग्भवतीति भावः । एवं च मदनस्य
सर्वस्वभूतेयमिति व्यज्यते । पञ्चेषुपदेन स्वल्पसामग्रीवतोऽपि महत्तरकार्यनिर्वाहकतयाति-
मन्त्रनिपुणत्वमावेद्यते । अथवा पश्चेषोः षटूपदरूपा । ज्यारूपेत्यर्थः । अत एव च हिता । Fountains
F