2023-03-26 07:21:31 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
द्वाग्देवीभजनं न मम दोषावहमिति भावः । एवं च स्वस्मिन् वाक्पतित्वमावेद्यते । एवं च
कारपदोपादानान्नाश्लीलता ॥
स्वग्रन्थस्य समीचीनत्वात् सर्वहर्षजनकत्वमिति वक्ति--
[^१]सत्पात्रोपनयोचितसत्प्रतिबिम्बाभिनववस्तु ।
कस्य न जनयति हर्षं सत्काव्यं मधुरवचनं च ॥ ६९८ ॥
सत्पात्रेति । नवमभिनवं वस्तु सत्काव्यं मधुरवचनं च कस्य न हर्षं जनयति । अपि
तु सर्वस्येति भावः । सत्पात्रेत्यादिविशेषणत्रितयस्यार्थः क्रमेण । समीचीनं यत्पात्रं संपु-
टादि तत्रोपनयाय स्थापनायोचितम् । अत्यन्तसंरक्षणीयमिति धियेति भावः । एवं च
बहुमूल्यत्वमावेद्यते । सन्समीचीनः । परीक्षक इत्यर्थः । तस्य प्रतिबिम्बो याथातथ्यस्व-
रूपपरिचयो यस्य । क्षुद्रपरीक्षकस्य तद्गुणयथार्थज्ञानं न भवतीति भावः । एतादृशमभिन्नं
सर्वदैकरूपम् । एवं च बहुकालसत्त्वेऽपि दोषासंस्पर्शितया मुक्ताफलादिव्यतिरेको ध्व-
न्यते । तेन चावश्यस्पृहणीयत्वम् । सत्पात्रे सहृदये पुंसि य उपनयः प्रापणं तत्रोचितम् ।
एवं च सहृदयस्यैव सत्काव्यश्रवणेऽधिकार इति भावः । सत्पात्रेण सहृदयेन च य उप-
नयः पठनादिस्तत्रोचितम् । एवं च सत्काव्यपाठेऽपि सहृदयस्यैवाधिकार इति ध्वन्यते ।
सत्स्वनादिकाव्यवासनाव्युत्पत्तिशालिहृदयेषु प्रतिबिम्बः सम्यग्बोधो यस्य । एवं च स-
त्काव्यार्थबोधोऽपि सहृदयस्यैवेति भावः । अभिन्नं सर्वसहृदयान्प्रत्येकरूपम् । सत्पात्राय
समीचीनायोपसमीपे नयेन विनयेनोचितम् । 'तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥' इति स्मरणात् सत्पात्रं प्रत्येतावतोऽपि स्व-
धर्मसंरक्षणकारित्वादिति भावः । समीचीनः प्रतिबिम्बो यस्यैतादृशो यश्चन्द्रस्ततोऽभि-
न्नम् । तद्रूपमित्यर्थः । एवं च मधुरवचने सुधारूपत्वप्रतिपादनान्निखिलतापापनोदकत्वं
बहुतरपुण्यैकलभ्यत्वं विरलत्वं च ध्वन्यते । अथवा मधुरवचनवतो देवरूपत्वं व्यज्यते ।
यद्वा मधुदैत्यं रात्यङ्गीकरोति । वधबलेन मुक्तिदत्वादिति भावः । तद्विषयकं यद्वचनं
तदित्यर्थः । कथंभूतम् । सत्पात्रे शमादिसंपत्तिशालिनि य उपनय उपदेशस्तत्रोचितम् ।
सतः सत्स्वरूपस्य ब्रह्मणः प्रतिबिम्बनं प्रतिबिम्बो विज्ञानं यस्मादेतादृशं तत् । अभिन्न-
मेकम् । यद्यपि भगवत्प्रतिपादका बहवो वेदान्तभागास्तथापि 'सर्वेषां वेदान्तवाक्यानां
ब्रह्मणि समन्वयः' इत्युक्तत्वादेकार्थत्वादेकत्वोक्तिः । अथवा सतः समीचीनाचरणस्य
-----------------------------------------------------------------------------------------
[^१]. बहुषु मूलपुस्तकेष्वयं समीचीनः पाठो वर्तते. टीकानुकूलपाठस्त्वयम् – 'सत्पा-
त्रोपनयोचितं सत्प्रतिबिम्बमभिन्नं नवं वस्तु.' अस्मिन्पाठे स्फुट एव च्छन्दोभङ्गः.
इमामार्यामग्रिमां च भङ्गां निपीयानन्तपण्डितो व्याख्यातवानिति भाति. एवमेव आका-
रत्रज्यायाम् 'आरोपिता शिलायाम्--' (८१) इत्याद्यार्या टीकानुरोधेन च्छन्दोभङ्गदूषितैव
मुद्रिता. मूलपुस्तकेषु तु 'आरोपिता शिलायामश्मेव त्वं स्थिरेति मन्त्त्रेण' इति सा-
धीयान्पाठो दृश्यते.