This page has not been fully proofread.

आर्यासप्तशती ।
 
२२९
 
द्वाग्देवीभजनं न मम दोषावहमिति भावः । एवं च स्वस्मिन्वाक्पतित्वमावेद्यते । एवं च

कारपदोपादानान्नाश्लीलता ॥
 

 
स्वग्रन्थस्य समीचीनत्वात्सर्वहर्षजनकत्वमिति वक्ति
 
--
 
सत्पात्रोपनयोचितसत्प्रतिबिम्बाभिनववस्तु ।
 

कस्य न जनयति हर्ष सत्काव्यं मधुरवचनं च ॥ ६९८ ॥
 

 
सत्पात्रेति । नवमभिनवं वस्तु सत्काव्यं मधुरवचनं च कस्य न हर्षे जनयति । अपि

तु सर्वस्येति भावः । सत्पात्रेत्यादिविशेषणत्रितयस्यार्थः क्रमेण । समीचीनं यत्पात्रं संपु-

टादि तत्रोपनयाय स्थापनायोचितम् । अत्यन्तसंरक्षणीयमिति धियेति भावः । एवं च

बहुमूल्यत्वमावेद्यते । सन्समीचीनः । परीक्षक इत्यर्थः । तस्य प्रतिबिम्बो याथातथ्यख-

रूपपरिचयो यस्य । क्षुद्रपरीक्षकस्य तद्गुणयथार्थज्ञानं न भवतीति भावः । एतादृशमभिन्नं

सर्वदैकरूपम् । एवं च बहुकालसत्त्वेऽपि दोषासंस्पर्शितया मुक्ताफलादिव्यतिरेको ध्व-

न्यते । तेन चावश्यस्पृहणीयत्वम् । सत्पात्रे सहृदये पुंसि य उपनयः प्रापणं तत्रोचितम् ।

एवं च सहृदयस्यैव सत्काव्यश्रवणेऽधिकार इति भावः । सत्पात्रेण सहृदयेन च य उप-

नयः पठनादिस्तत्रोचितम् । एवं च सत्काव्यपाठेऽपि सहृदयस्यैवाधिकार इति ध्वन्यते ।

सत्वनादिकाव्यवासनाव्युत्पत्तिशालिहृदयेषु प्रतिबिम्बः सम्यग्बोधो यस्य । एवं च स-

त्काव्यार्थबोधोऽपि सहृदयस्यैवेति भावः । अभिन्नं सर्वसहृदयान्प्रत्येकरूपम् । सत्पात्राय

समीचीनायोपसमीपे नयेन विनयेनोचितम् । 'तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।

एतान्यपि सतां गेहे नोच्छियन्ते कदाचन ॥' इति स्मरणात्सत्पात्रं प्रत्येतावतोऽपि ख-

धर्मसंरक्षणकारित्वादिति भावः । समीचीनः प्रतिबिम्बो यस्यैतादृशो यश्चन्द्रस्ततोऽभि-

न्नम् । तद्रूपमित्यर्थः । एवं च मधुरवचने सुधारूपत्वप्रतिपादनान्निखिलतापापनोदकत्वं

बहुतरपुण्येकलभ्यत्वं विरलत्वं च ध्वन्यते । अथवा मधुरवचनवतो देवरूपत्वं व्यज्यते ।

यद्वा मधुदैत्यं रात्यङ्गीकरोति । वधबलेन मुक्तिदत्वादिति भावः । तद्विषयकं यद्वचनं

तदित्यर्थः । कथंभूतम् । सत्पात्रे शमादिसंपत्तिशालिनि य उपनय उपदेशस्तत्रोचितम् ।

सतः सत्स्वरूपस्य ब्रह्मणः प्रतिबिम्बनं प्रतिबिम्बो विज्ञानं यस्मादेतादृशं तत् । अभिन्न-

मेकम् । यद्यपि भगवत्प्रतिपादका बहवो वेदान्तभागास्तथापि 'सर्वेषां वेदान्तवाक्यानां

ब्रह्मणि समन्वयः' इत्युक्तत्वादेकार्थत्वा देकत्वोक्तिः । अथवा सतः समीचीनाचरणस्य
 

-----------------------------------------------------------------------------------------
१. बहुषु मूलपुस्तकेष्वयं समीचीनः पाठो वर्तते. टीकानुकूलपाठस्त्वयम् – 'सत्पा-

त्रोपनयोचितं सत्प्रतिबिम्बमभिन्नं नवं वस्तु.' अस्मिन्पाठे स्फुट एव च्छन्दोभङ्गः.

इमामार्यामग्रिमां च भङ्गां निपीयानन्तपण्डितो व्याख्यातवानिति भाति एवमेव आका-

रत्रज्यायाम् 'आरोपिता शिलायाम्-' (८१) इत्याद्यार्या टीकानुरोधेन च्छन्दोभङ्गदूषितैव

मुद्रिता. मूलपुस्तकेषु तु 'आरोपिता शिलायामश्मेव त्वं स्थिरेति मन्त्रेण' इति सा-

धीयान्पाठो दृश्यते.
Sn Curgeshuwan Digital Fundation