This page has been fully proofread once and needs a second look.

एवं च तस्यां तीव्रः कोपो न वा शीलप्रेमशेषः । अतस्तस्यास्त्वं न दयित इति भाव
इति प्रतिभाति । परं तु मानस्यासाध्यत्वप्रदर्शनेनाभासत्वमायाति ॥
 
नायिका नायकं वक्ति--
 
क्षान्तमपसारितो यच्चरणावुपधाय सुप्त एवासि ।
उद्घाटयसि किमूरू निःश्वासैः पुलकयन्नुष्णैः ॥ ६९
 
क्षान्तमिति । अत्र संबुद्धिपदानपानं क्रोधमावेदयति । अपसारितो दूरीकृतश्चरणा-
वुपधानीकृत्य सुप्त एवासि तत्क्षान्तम् । उष्णैः । संतापजत्वादिति भावः । निःश्वासैः
पुलकयन्नूरू किमुद्घाटयसि । इयमेव हि त्वां प्रति मदीया क्षमा यच्चरणसविधे सुप्त इतो
न निराकृतोऽसि । त्वं पुनर्घृधृष्ट ऊरुविघटनं करोषि महत्साहसं तवेति ध्वन्यते । तेन
चैतन्न मया सोढव्यमिति । यद्वा यदपसारितश्चरणावुपधाय सुप्त एवास्यतः क्षान्तं त्वदी-
यानुचितमिति भावः । क्षमाफलमेवाह - --उष्णैः श्वसितैः पुलकयन्नूरू किमित्युद्धाटयसि ।
एवं च त्वदीयसहनशीलतया मया त्वदीयापराधजदुःखं त्यक्तम्, अतो दुःखजाञ्श्वासा-
न्परित्यज्याचिरमालिङ्गनचुम्बनादि विधेहीति ध्वन्यते । एवं च पुलकयन्निति सार्थकम् ॥
 
कश्चित्कंचिद्वक्ति--
 
क्षुद्रोद्भवस्य कटुतां प्रकटयतो यच्छतश्च मदमुच्चैः ।
मधुनो लघुपुरुषस्य च गरिमा लघिमा च भेदाय ॥ ६९६ ॥
 
क्षुद्रेति । क्षुद्रा मधुमक्षिका । अथ च क्षुद्रो नीचः । तदुत्पन्नस्य । कटुतां रूक्षताम् ।
अथ च कटुभाषिताम् । प्रकटयतः । उच्चैरुत्कटं मदमुन्मादम् । अथ च गर्वम् । यच्छतः
कुर्वतः मधुनो माक्षिकस्याधमपुरुषस्य च गौरवं गुरुत्वं लाघवं तुच्छत्वं च भेदाय ।
यद्वा मधु मद्यम्, क्षुद्रा कण्टकारिकेत्यर्थः । एवं चाधमसंगतिर्न विधेयेति ॥
 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता क्षकारव्रजा ।
-------------------------------------
 
स्वकृतौ गुणाढ्यादिमहाकविकृतिसमतां वक्ति--
 
पूर्वैर्विभिन्नवृत्तां गुणाढ्यभवभूतिबाणरघुकारैः ।
वाग्देवीं भजतो मम सन्तः पश्यन्तु को दोषः ॥ ६९७ ॥
 
पूर्वैरिति । गुणाढ्यभवभूतिबाणकालिदासैः पूर्वैः प्राक्तनैर्विभिन्नवृत्तामपि लक्षणसर-
णिशालिनीं (लक्षणया स्वैरिणीं) वाग्देवीं भजतो मम को दोषः । न कोऽपीत्यर्थः ।
इ॒दं सन्तः पश्यन्तु । एवं च वाग्देव्या एकत्वेऽपि वैलक्षण्येन पूर्वैः सेवितत्वान्मयापि
चैवैलक्षण्येन सा सेवितेति न मद्दोषगणनं सतामुचितमिति भावः । सन्त इत्यनेन नासतां
प्रार्थना । अथ च पूर्वैर्गुणाढ्यादिभिर्विभिन्नशीलां वाग्रूपां देवीं राज्ञीं भजतो मम को
दोषः । इदं सन्तः पश्यन्तु । एवं च 'यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः' इति वचना-