2023-03-26 06:09:00 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
सखी नायिकां वक्ति--
हृतकाञ्चिवल्लिबन्धोत्तरजघनादपरभोगभुक्तायाः ।
उल्लसति रोमराजिः स्तनशंभोर्गरललेखेव ॥ ६९३ ॥
हृतेति । न विद्यते परो यस्मात् । अत्युत्कट इत्यर्थः । यो भोगः सुरतं तत्रोपमुक्ता-
यास्तव हृतकाञ्चिवल्लिबन्धेनोत्तर उच्छूनो यो जघनस्तद्धेतोः स्तनशंकरस्य विषलेखेव
रोमावलिरुल्लसति । एवं च काञ्चिबन्धत्रुटनोद्धुरजघनकथनेन रतातिशयवत्त्वमावेद्यते ॥
इत्यनन्त पण्डितकृतगोवर्धनसप्तशतीव्यङ्गग्यार्थदीपनया समेता हकारव्रज्या ।
------------------------------------------
क्षकारव्रज्या ।
कथं त्वयि प्रीतिमकुर्वाणेऽपि नायके त्वं विनीतेति वादिनीं सखीं नायिका वक्ति--
क्षीरस्य तु दयितत्वं यतोऽपि शान्तोपचारमासाद्य ।
शैलोऽङ्गान्यानमयति प्रेम्णः शेषो ज्वरस्येव ॥ ६९४ ॥
क्षीरस्येति । क्षीरस्यापि दयितत्वं प्रीतिविषयत्वं यतः । यस्मादित्यर्थः । शान्तोपचारं
समाप्तोपचारम् । अरोगिणमित्यर्थः । आसाद्य । एवं च क्षीरस्य क्षीरत्वेन सर्वस्पृहणीय-
योग्यत्वेऽपि रोगग्रस्तं प्रति न स्पृहणीयत्वमेवमन्याङ्गनानुरागरूपरोगप्ग्रस्तं प्रति नाहं
स्पृहणीयेति भावः । एवं च न तस्यापराधो न वा मम काचित् क्षतिरिति व्यज्यते । तेन
च कंचित्कालोत्तरमहं तत्स्पृहणीया भविष्यामीति । तु पुनः । शीलस्यायं शैलसंबन्धी-
त्यर्थः । पक्षे शिलानामयं शैलः । अत्यन्तगुरुतापादक इति भावः । ज्वरस्येव प्रीते:
शेषोऽङ्गानि । ममेति भावः । आनमयति । एवं च यथा पर्वततुल्यो ज्वरशेषोऽङ्गानि
बलादानमयति तथा शीलसंबन्धी प्रीतेः शेषो मां विनीततां प्रापयतीतिभभावः । एवं च
यद्यपि तथाविधप्रीतेरभावादहमविनीततां कर्तुमिच्छामि तथापि शीलप्रीतिशेषो मां बला-
द्विनीततां नयतीति व्यज्यते । तेन च न ममापराध इति । यद्वा नायिकासखी नायकं
वक्ति – हे शान्त । एवं चापराधजनकत्वाभावो व्यज्यते । यतः क्षीरस्याप्युपचारम् । आ-
वर्तितत्वशर्करादि संपर्कादिकमित्यर्थः । आसाद्य दयितत्वं प्रीतिविषयत्वं भवति । एवं च
स्वतः क्षीरस्य माधुर्यवत्त्वेऽप्यावर्तनशर्करादिसंपर्कवशात् प्रीतिविषयत्वं यथा तथा पराङ्ग-
नालम्पटत्वादिराहित्येन त्वयि प्रीतिविषयत्वेऽपि वारंवारागमनचाटुवचनरचनादिमत्तया
प्रीतिविषयत्वं भावीति व्यज्यते । एवं चाहमपराधाभाववानिति तूष्णीमेवावस्थितिरनु-
चिततरेति व्यज्यते । तु पुनः प्रेम्णः शैलः पर्वतो ज्वरस्य शेष इवाङ्गान्यानमयति ।
एवं च यथा बलाज्ज्वरशेषोऽङ्गनमनाभाव मिच्छोरप्यङ्गनमनं करोत्येव तथा यदि त्वं
तद्विषयकबहुतरप्रेमवानसि तर्हि तदेव त्वां बलात् प्रमाणादिशालिनं करिष्यतीति भावः ।
एवं च नाहमपराधीति किमिति प्रणामादिकं न करिष्यामीति वक्तुं नोचितं तवेति
ध्वन्यत इत्यर्थः । कुपितनायिकां समाधातुमशक्ता दूती नायकं वक्ति । योजना प्राग्वत् ।
हृतकाञ्चिवल्लिबन्धोत्तरजघनादपरभोगभुक्तायाः ।
उल्लसति रोमराजिः स्तनशंभोर्गरललेखेव ॥ ६९३ ॥
हृतेति । न विद्यते परो यस्मात् । अत्युत्कट इत्यर्थः । यो भोगः सुरतं तत्रोपमुक्ता-
यास्तव हृतकाञ्चिवल्लिबन्धेनोत्तर उच्छूनो यो जघनस्तद्धेतोः स्तनशंकरस्य विषलेखेव
रोमावलिरुल्लसति । एवं च काञ्चिबन्धत्रुटनोद्धुरजघनकथनेन रतातिशयवत्त्वमावेद्यते ॥
इत्यनन्त
------------------------------------------
क्षकारव्रज्या ।
कथं त्वयि प्रीतिमकुर्वाणेऽपि नायके त्वं विनीतेति वादिनीं सखीं नायिका वक्ति--
क्षीरस्य तु दयितत्वं यतोऽपि शान्तोपचारमासाद्य ।
शैलोऽङ्गान्यानमयति प्रेम्णः शेषो ज्वरस्येव ॥ ६९४ ॥
क्षीरस्येति । क्षीरस्यापि दयितत्वं प्रीतिविषयत्वं यतः । यस्मादित्यर्थः । शान्तोपचारं
समाप्तोपचारम् । अरोगिणमित्यर्थः । आसाद्य । एवं च क्षीरस्य क्षीरत्वेन सर्वस्पृहणीय-
योग्यत्वेऽपि रोगग्रस्तं प्रति न स्पृहणीयत्वमेवमन्याङ्गनानुरागरूपरोग
स्पृहणीयेति भावः । एवं च न तस्यापराधो न वा मम काचित् क्षतिरिति व्यज्यते । तेन
च कंचित्कालोत्तरमहं तत्स्पृहणीया भविष्यामीति । तु पुनः । शीलस्यायं शैलसंबन्धी-
त्यर्थः । पक्षे शिलानामयं शैलः । अत्यन्तगुरुतापादक इति भावः । ज्वरस्येव प्रीते:
शेषोऽङ्गानि । ममेति भावः । आनमयति । एवं च यथा पर्वततुल्यो ज्वरशेषोऽङ्गानि
बलादानमयति तथा शीलसंबन्धी प्रीतेः शेषो मां विनीततां प्रापयतीति
यद्यपि तथाविधप्रीतेरभावादहमविनीततां कर्तुमिच्छामि तथापि शीलप्रीतिशेषो मां बला-
द्विनीततां नयतीति व्यज्यते । तेन च न ममापराध इति । यद्वा नायिकासखी नायकं
वक्ति – हे शान्त । एवं चापराधजनकत्वाभावो व्यज्यते । यतः क्षीरस्याप्युपचारम् । आ-
वर्तितत्वशर्करादि संपर्कादिकमित्यर्थः । आसाद्य दयितत्वं प्रीतिविषयत्वं भवति । एवं च
स्वतः क्षीरस्य माधुर्यवत्त्वेऽप्यावर्तनशर्करादिसंपर्कवशात् प्रीतिविषयत्वं यथा तथा पराङ्ग-
नालम्पटत्वादिराहित्येन त्वयि प्रीतिविषयत्वेऽपि वारंवारागमनचाटुवचनरचनादिमत्तया
प्रीतिविषयत्वं भावीति व्यज्यते । एवं चाहमपराधाभाववानिति तूष्णीमेवावस्थितिरनु-
चिततरेति व्यज्यते । तु पुनः प्रेम्णः शैलः पर्वतो ज्वरस्य शेष इवाङ्गान्यानमयति ।
एवं च यथा बलाज्ज्वरशेषोऽङ्गनमनाभाव