This page has not been fully proofread.

सखी नायिकां वक्ति-
आर्यासप्तशती ।
 
२२७
 
-
 
हृतकाञ्चिवल्लिबन्धोत्तरजघनादपरभोगभुक्तायाः ।

उल्लसति रोमराजिः स्तनशंभोर्गरललेखेव ॥ ६९३ ॥
 

 
हृतेति । न विद्यते परो यस्मात् । अत्युत्कट इत्यर्थः । यो भोगः सुरतं तत्रोपमुक्ता-

यास्तव हृतकाञ्चिवल्लिबन्धेनोत्तर उच्छूनो यो जघनस्तद्धेतोः स्तनशंकरस्य विषलेखेव

रोमावलिरुल्लसति । एवं च काञ्चिबन्धत्रुटनोद्धुरजघनकथनेन रतातिशयवत्वमावेद्यते ॥

इत्यनन्त पण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता हकारव्रज्या ।
 

------------------------------------------
 
क्षकारव्रज्या ।
 

 
कथं त्वयि प्रीतिमकुर्वाणेऽपि नायके त्वं विनीतेति वादिनीं सखीं नायिका वक्ति -
--
 
क्षीरस्य तु दयितत्वं यतोऽपि शान्तोपचारमासाद्य ।

शैलोऽङ्गान्यानमयति प्रेम्णः शेषो ज्वरस्येव ॥ ६९४ ॥
 

 
क्षीरस्येति । क्षीरस्यापि दयितत्वं प्रीतिविषयत्वं यतः । यस्मादित्यर्थः । शान्तोपचारं

समाप्तोपचारम् । अरोगिणमित्यर्थः । आसाद्य । एवं च क्षीरस्य क्षीरत्वेन सर्वस्पृहणीय-

योग्यत्वेऽपि रोगग्रस्तं प्रति न स्पृहणीयत्वमेवमन्याङ्गनानुरागरूपरोगप्रस्तं प्रति नाहं

स्पृहणीयेति भावः । एवं च न तस्यापराधो न वा मम काचित्क्षतिरिति व्यज्यते । तेन

च कंचित्कालोत्तरमहं तत्स्पृहणीया भविष्यामीति । तु पुनः । शीलस्यायं शैलसंबन्धी-

त्यर्थः । पक्षे शिलानामयं शैलः । अत्यन्तगुरुतापादक इति भावः । ज्वरस्येव प्रीते:

शेषोऽङ्गानि । ममेति भावः । आनमयति । एवं च यथा पर्वततुल्यो ज्वरशेषोऽङ्गानि

बलादानमयति तथा शीलसंबन्धी प्रीतेः शेषो मां विनीततां प्रापयतीति भवः । एवं च

यद्यपि तथाविधप्रीतेरभावादहमविनीततां कर्तुमिच्छामि तथापि शीलप्रीतिशेषो मां बला-

द्विनीततां नयतीति व्यज्यते । तेन च न ममापराध इति । यद्वा नायिकासखी नायकं

वक्ति – हे शान्त । एवं चापराधजनकत्वाभावो व्यज्यते । यतः क्षीरस्याप्युपचारम् । आ-

वर्तितत्वशर्करादि संपर्कादिकमित्यर्थः । आसाद्य दयितत्वं प्रीतिविषयत्वं भवति । एवं च

स्वतः क्षीरस्य माधुर्यवत्त्वेऽप्यावर्तनशर्करादिसंपर्कवशात्प्रीतिविषयत्वं यथा तथा पराङ्ग-

नालम्पटत्वादिराहित्येन त्वयि प्रीतिविषयत्वेऽपि वारंवारागमनचाटुवचनरचनादिमत्तया

प्रीतिविषयत्वं भावीति व्यज्यते । एवं चाहमपराधाभाववानिति तूष्णीमेवावस्थितिरनु-

चिततरेति व्यज्यते । तु पुनः प्रेम्णः शैलः पर्वतो ज्वरस्य शेष इवाङ्गान्यानमयति ।

एवं च यथा बलाज्ज्वरशेषोऽङ्गनमनाभाव मिच्छोरप्यङ्गनमनं करोत्येव तथा यदि त्वं

तद्विषयकबहुतरप्रेमवानसि तर्हि तदेव त्वां बलात्प्रमाणादिशालिनं करिष्यतीति भावः ।

एवं च नाहमपराधीति किमिति प्रणामादिकं न करिष्यामीति वक्तुं नोचितं तवेति

ध्वन्यत इत्यर्थः । कुपितनायिकां समाधातुमशक्ता दूती नायकं वक्ति । योजना प्राग्वत् ।
 
dation