This page has been fully proofread once and needs a second look.

सम्यग्ज्ञानमन्येषां मा भवत्विति धियेति भावः । एवं चैतस्यास्तत्रैतादृशी गतिरिति
त्वमेवाधुना शरणमिल्त्यवगत्यानुरक्तां तामनुगृहाणेति व्यज्यते ॥
 
नायकः सखायं वक्ति--
 
हृदयं मम प्रतिक्षणविहितावृत्तिः सखे प्रियाशोकः ।
प्रबलो विदारयिष्यति जलकलशं नीरलेखेव ॥ ६९० ॥
 
हृदयमिति । हे सखे, प्रबलः प्रतिक्षणं विहितावृत्तिर्येनैतादृशः प्रियासंबन्धी शोक-
स्तरङ्गपङ्किक्तिर्जलसंबन्धिघटमिव मम हृदयं विदारयिष्यति । एवं च मयि प्रस्थितुं कृतो-
द्योगे संजातप्रियादुःखं प्रबलत्वाद्वारं वारं जायमानत्वान्मम हृदयं दुःखोद्रेकवशाद्भिन्नं
करिष्यतीत्यर्थः । प्रियादुःखादप्यत्यन्तं मम दुःखं भावीति भावः । यद्वा वारं वारं जा-
यमानः प्रबलः । एवं च प्रतीकारानर्हत्वमावेद्यते प्रियायाः । एवं चावश्यभवनयोग्यत्वं
शोके द्योत्यते । विरहजः शोको मम हृदयं स्फोटयिष्यति । एवं च प्रियविरहजन्य-
दुःखं मया सोढुमशक्यमिति न मया प्रस्थितिर्विधेयेति व्यज्यते । यद्वाननुभूतप्रियावि-
'रहः कश्चित् सखायं पृच्छति – प्रियासंबन्धिशोको मम हृदयं विदारयिष्यतीति । एवं च
प्रियासंबन्धित्वेन शोकस्य प्रियाहृदयविदारकत्वमुचितं नान्यहृदयविदारकत्वमिति व्य-
ज्यते । मम हृदयमित्यनेन हृदयविदारणेऽसत्ह्यत्वं तन्निवारणोपायसंपादने चावश्यकर्तव्यत्वं
ध्वन्यते । तरङ्गपङ्किक्तिरपि प्रतिक्षणकृतावृत्तिः प्रबला जलार्थं प्रक्षिप्तं कलशं स्फोटयति ॥
 
नायिका सखीं वक्ति--
 
हन्त विरहः समन्ताज्ज्वलयति दुर्वारतीत्रसंवेगः ।
अरुणस्तपन शिलामिव पुनर्न मां भस्मतां नयति ॥ ६९१ ॥
 
हन्तेति । दुःखेन निवारयितुमशक्यस्तीत्व्रो दुःसहः संवेग आधिक्यं यस्य स
विरहः समन्तात् । सर्वाङ्गमित्यर्थः । सर्वत्रेति वा । क्वापि विश्रान्तिस्थानं नास्तीति
भावः । मां ज्वलयति । हन्त खेदे । अरुणस्तपनशिलामिव पुनर्न भस्मतां प्रापयति ।
एवं विरहे सति जीवनान्मरणमेव वरमिति व्यज्यते ॥
 
कश्चित्कां काञ्चिदन्योक्त्या वक्ति--
 
हृत्वा तटिनि तरङ्गैर्भ्रमितश्चक्रेषु नाशये निहितः ।
फलदलवल्कलरहितस्त्वयान्तरिक्षे तरुस्त्यक्तः ॥ ६९२ ॥
 
हृत्वेति । हे तटिनि । एवं च निष्कामगमनयोग्यत्वं ध्वन्यते । तरङ्गैर्हृत्वा चक्रेष्व॰
म्भसां भ्रमेषु भ्रमिं प्रापितः । आशये मध्ये न स्थापितः । फलदलवल्कलैहीं न र्हीनस्तरुस्त्व-
यान्तरिक्षे व्त्यक्तः । एवं च तरङ्गरूपकटाक्षैरेनं स्वाधीनीकृत्येतस्ततो भ्रामयित्वा
स्वान्तःकरणेऽकृत्वा द्रव्यादिहीनत्वमासादयित्वाकस्मात् परित्यक्तोऽयं नायकः, इदम-
नुचितं तवेति ध्वन्यते ॥