This page has not been fully proofread.

२२६
 
काव्यमाला ।
 
सम्यग्ज्ञानमन्येषां मा भवत्विति धियेति भावः । एवं चैतस्यास्तत्रैतादृशी गतिरिति

त्वमेवाधुना शरणमिल्यवगत्यानुरक्तां तामनुगृहाणेति व्यज्यते ॥

 
नायकः सखायं वक्ति-
-
 
हृदयं मम प्रतिक्षणविहितावृत्तिः सखे प्रियाशोकः ।

प्रबलो विदारयिष्यति जलकलशं नीरलेखेव ॥ ६९० ॥
 

 
हृदयमिति । हे सखे, प्रबलः प्रतिक्षणं विहितावृत्तिर्येनैतादृशः प्रियासंबन्धी शोक-

स्तरङ्गपङ्किर्जलसंबन्धिघटमिव मम हृदयं विदारयिष्यति । एवं च मयि प्रस्थितुं कृतो-

द्योगे संजातप्रियादुःखं प्रबलत्वाद्वारं वारं जायमानत्वान्मम हृदयं दुःखोद्रेकवशाद्भिनं

करिष्यतीत्यर्थः । प्रियादुःखादप्यत्यन्तं मम दुःखं भावीति भावः । यद्वा वारं वारं जा-

यमानः प्रबलः । एवं च प्रतीकारानर्हत्वमावेद्यते प्रियायाः । एवं चावश्यभवनयोग्यत्वं

शोके द्योत्यते । विरहजः शोको मम हृदयं स्फोटयिष्यति । एवं च प्रियविरहजन्य-

दुःखं मया सोढुमशक्यमिति न मया प्रस्थितिर्विधेयेति व्यज्यते । यद्वाननुभूतप्रियावि-

'रहः कश्चित्सखायं पृच्छति – प्रियासंबन्धिशोको मम हृदयं विदारयिष्यतीति । एवं च

प्रियासंबन्धित्वेन शोकस्य प्रियाहृदयविदारकत्वमुचितं नान्यहृदयविदारकत्वमिति व्य-

ज्यते । मम हृदयमित्यनेन हृदयविदारणेऽसत्यत्वं तन्निवारणोपायसंपादने चावश्यकर्तव्यत्वं

ध्वन्यते । तरङ्गपङ्किरपि प्रतिक्षणकृतावृत्तिः प्रबला जलार्थ प्रक्षिप्तं कलशं स्फोटयति ॥

 
नायिका सखीं वक्ति-
-
 
हन्त विरहः समन्ताज्ज्वलयति दुर्वारतीत्रसंवेगः ।
 

अरुणस्तपन शिलामिव पुनर्न मां भस्मतां नयति ॥ ६९१ ॥
 

 
हन्तेति । दुःखेन निवारयितुमशक्यस्तीत्रो दुःसहः संवेग आधिक्यं यस्य स

विरहः समन्तात् । सर्वाङ्गमित्यर्थः । सर्वत्रेति वा । क्वापि विश्रान्तिस्थानं नास्तीति

भावः । मां ज्वलयति । हन्त खेदे । अरुणस्तपनशिलामिव पुनर्न भस्मतां प्रापयति ।

एवं विरहे सति जीवनान्मरणमेव वरमिति व्यज्यते ॥
 

 

 
कश्चित्कांचिदन्योक्त्या वक्ति
 
--
 
हृत्वा तटिनि तरङ्गैर्भ्रमितश्चक्रेषु नाशये निहितः ।
 

फलदलवल्कलरहितस्त्वयान्तरिक्षे तरुस्त्यक्तः ॥ ६९२ ॥
 

 
हृत्वेति । हे तटिनि । एवं च निष्कामगमनयोग्यत्वं ध्वन्यते । तरङ्गैर्हत्वा चक्रेष्व॰

म्भसां भ्रमेषु भ्रमिं प्रापितः । आशये मध्ये न स्थापितः । फलदलवल्कलैहीं न स्तरुस्त्व-

यान्तरिक्षे व्यक्तः । एवं च तरङ्गरूपकटाक्षैरेनं स्वाधीनीकृत्येतस्ततो भ्रामयित्वा

स्वान्तःकरणेऽकृत्वा द्रव्यादिहीनत्वमासादयित्वाकस्मात्परित्यक्तोऽयं नायकः, इदम-

नुचितं तवेति ध्वन्यते ॥