This page has been fully proofread once and needs a second look.

हृदयेति । कलहभिन्नशय्या सुतनुर्भयव्याजाद्यथा मां प्रत्येति तथा हृदयज्ञया नायिका-
भिप्रायज्ञानवत्या सख्या गवाक्षे किमपि वक्तुमशक्यं विसदृशं कूजितम् । वि
 
सदृक्षमित्य-
नेन भययोग्यत्वम् । एवं च कलहोत्तरसंजातसंतापं नायिकाया विज्ञाय तथाविधविल-
क्षणकूजिते सख्या कृते भयव्याजेन मन्निकटे नायिकागतेति नायिकाकलहो नातिचि-
रावस्थायीति व्यज्यते ॥
 
सखी नायिकां वक्ति--
 
हरति हृदयं शलाकानिहितोऽञ्जनतन्तुरेष सखि मुग्धे ।
लोचनबाणमुचान्तर्भूधनुषा किण इवोल्लिखितः ॥ ६८७ ॥
 
हरतीति । हे सखि मुग्धे सुन्दरि, शलाकया निहित एष कज्जलतन्तुः । तन्तुपदेन
रेखायां तनीयस्त्वं व्यज्यते । लोचनरूपो यः शरस्तन्मोचनकर्त्रा भ्रूधनुषोल्लिखितः
किण इव हृदयम् । अर्थान्नायकस्य । हरति । एवं चैतादृशत्वदीयदृगनुगृहीतो निगृहीत
इव संवृत्तः, अत एनमनुकम्पया द्रुतमनुगृहाणेति व्यज्यते । अथवा मुग्धे सुन्दरे ।
नायक इत्यर्थः । 'मुग्धः सुन्दरमूढयोः' इति । लोचनबाणं मुश्ञ्चेति योजना प्राग्वत् ॥
 
क्रोधवशादपमानितं नायक नायिका समाधत्ते--
 
हससि चरणप्रहारे तल्पादपसारितो भुवि स्वपिषि ।
नासहशेऽपि कृते प्रिय मम हृदयात्त्वं विनिःसरसि ॥ ६८८ ॥
 
ससीति । चरणताडने हास्यं करोषि । शयनीयाद्दूरीकृतो भूमौ स्वापं करोषि ।
असदृशेऽयोग्ये कृतेऽपि हे प्रिय, मम हृदयाच्त्त्वं न विनिःसरसि । एवं च चरणप्रहा-
रादिरूपानुचितावमानने क्रोधात् कृतेऽपि चेतसा त्वद्विषयकानुरागभागिन्येवाहमिति
चरणताडनादिजन्यमदीयापराधमनादृत्यानुग्रहं कुर्वेिति व्यज्यते । यद्वा सपत्नीसांनि-
ध्यरूपानुचिते विहितेऽपि । त्वयेति भावः । मम हृदयात्त्वं नापगच्छसि । अत्र हेतु-
माह — चरणप्रहारे हससीत्यादि । एवं च त्वदीयैतादृशसहनशीलस्वरूपगुणाकृष्टचित्ततया
त्वदीयैतादृशानुचिताचरणजनितक्रोधेन न मय्यवस्थितिर्लभ्यत इति व्यज्यते । तेन
चाहमधुना त्वयि प्रसन्नेति ॥
 
नायके नायिकासक्तिविशेषं सखी वक्ति--
 
सति सपत्नी श्वश्रू रोदिति वदनं च पिदधते सख्यः ।
स्वप्नायितेन तस्यां सुभग त्वन्नाम जल्पन्त्याम् ॥ ६८९ ॥
 
हसतीति । हे सुभग, तस्यां नायिकायां स्वप्नायितेनोत्स्खावापेन त्वन्नाम जल्पन्त्यां सत्यां
सपत्नी हसति । एतस्या असतीत्वज्ञानोत्तरं प्रियाप्रियत्वं भविष्यतीति सुखाविर्भावादिति
भावः । श्वश्रू रोदिति । इदं चेदन्यैः श्रुतं तदानर्थ एवापद्येत । अथवेयमेतादृशी संवृत्ता,
कथमतः परं पुनस्तनयविवाहसंपादनमिति दुःखोद्रेकादिति भावः । सख्यश्च वदनम् ।
नायिकाया इति भावः । पिदधते । एवं च वर्णानामस्फुटत्वसंपादनेन पुनर्नामग्रहेऽपि