This page has not been fully proofread.

आर्यासप्तशती ।
 
२२५
 
हृदयेति । कलहभिन्नशय्या सुतनुर्भयव्याजाद्यथा मां प्रत्येति तथा हृदयज्ञया नायिका-

भिप्रायज्ञानवत्या सख्या गवाक्षे किमपि वक्तुमशक्यं विसदृशं कूजितम् । विसदृक्षमित्य-

नेन भययोग्यत्वम् । एवं च कलहोत्तरसंजातसंतापं नायिकाया विज्ञाय तथाविधविल-

क्षणकूजिते सख्या कृते भयव्याजेन मन्निकटे नायिकागतेति नायिकाकलहो नातिचि-

रावस्थायीति व्यज्यते ॥
 

 
सखी नायिकां वक्ति -
 
-
 
हरति हृदयं शलाकानिहितोऽञ्जनतन्तुरेष सखि मुग्धे ।

लोचनबाणमुचान्तर्भूधनुषा किण इवोल्लिखितः ॥ ६८७ ॥

 
हरतीति । हे सखि मुग्धे सुन्दरि, शलाकया निहित एष कज्जलतन्तुः । तन्तुपदेन

रेखायां तनीयस्त्वं व्यज्यते । लोचनरूपो यः शरस्तन्मोचनकर्त्रा भ्रूधनुषोल्लिखितः

किण इव हृदयम् । अर्थान्नायकस्य । हरति । एवं चैतादृशत्वदीयदृगनुगृहीतो निगृहीत

इव संवृत्तः, अत एनमनुकम्पया द्रुतमनुगृहाणेति व्यज्यते । अथवा मुग्धे सुन्दरे ।

नायक इत्यर्थः । 'मुग्धः सुन्दरमूढयोः' इति । लोचनबाणं मुश्चेति योजना प्राग्वत् ॥

 
क्रोधवशादपमानितं नायक नायिका समाधत्ते-
-
 
हससि चरणप्रहारे तल्पादपसारितो भुवि स्वपिषि ।
 

नासहशेऽपि कृते प्रिय मम हृदयात्त्वं विनिःसरसि ॥ ६८८ ॥

 
इससीति । चरणताडने हास्यं करोषि । शयनीयाद्दूरीकृतो भूमौ स्वापं करोषि ।

असदृशेऽयोग्ये कृतेऽपि हे प्रिय, मम हृदयाच्वं न विनिःसरसि । एवं च चरणप्रहा-

रादिरूपानुचितावमानने क्रोधात्कृतेऽपि चेतसा त्वद्विषयकानुरागभागिन्येवाहमिति

चरणताडनादिजन्यमदीयापराधमनादृत्यानुग्रहं कुर्वेिति व्यज्यते । यद्वा सपत्नीसांनि-

ध्यरूपानुचिते विहितेऽपि । त्वयेति भावः । मम हृदयात्त्वं नापगच्छसि । अत्र हेतु-

माह — चरणप्रहारे हससीत्यादि । एवं च त्वदीयैतादृशसहनशीलखरूपगुणाकृष्टचित्ततया

त्वदीयैतादृशानुचिताचरणजनितक्रोधेन न मय्यवस्थितिर्लभ्यत इति व्यज्यते । तेन

चाहमधुना त्वयि प्रसन्नेति ॥
 

 
नायके नायिकासक्तिविशेषं सखी वक्ति -
 
-
 
इसति सपत्नी श्वश्रू रोदिति वदनं च पिदधते सख्यः ।
 

स्वप्नायितेन तस्यां सुभग त्वन्नाम जल्पन्त्याम् ॥ ६८९ ॥
 

 
हसतीति । हे सुभग, तस्यां नायिकायां स्वप्नायितेनोत्स्खापेन त्वन्नाम जल्पन्त्यां सत्यां

सपत्नी हसति । एतस्या असतीत्वज्ञानोत्तरं प्रियाप्रियत्वं भविष्यतीति सुखाविर्भावादिति

भावः । श्वश्रू रोदिति । इदं चेदन्यैः श्रुतं तदानर्थ एवापद्येत । अथवेयमेतादृशी संवृत्ता,

कथमतः परं पुनस्तनयविवाहसंपादनमिति दुःखोद्रेकादिति भावः । सख्यश्च वदनम् ।

नायिकाया इति भावः । पिदधते । एवं च वर्णानामस्फुटत्वसंपादनेन पुनर्नामग्रहेऽपि
 
आ० स० २०