This page has been fully proofread once and needs a second look.

बाष्पोदकं संवृणु । कज्जलेनोपरज्यैनां दृशं वलय । उत्तरङ्गयेत्यर्थः । दयितः । एवं चावश्य-
समाधेयत्वमावेद्यते । किसलयेन्दीवरयोरेककालमेव रुचं पश्यतु । एवं च रोदनादिना
रक्ततामापन्नाया दृशः कज्जलदानेन श्यामतासंपादनेन व्यधिकरणत्वेन प्रसिद्धयोरपि
पल्लवेन्दीवरयोरैकाधिकरण्यसंपादनेन सर्वाद्भुतवस्तु प्रदर्शन जनितानन्ददानेन नय स्वा-
धीनतामिति भावः । 'दृशम्' इति स्थाने 'भृशम्', 'पल्लव--' इति स्थाने 'पल्वल--' इति
पाठे भृशमधिरज्यैनां दृशमित्यध्याहार्य वलयेति योजना । अञ्जनदानेन पङ्कवत्तासंपाद-
नेन पङ्कजसत्त्वयोग्यता । एवं च सरसि पङ्केरुहवत्ता प्रसिद्धा । पल्वलेऽपि तद्भवनेन च-
मत्कारातिशयप्रदर्शनेन नायकचित्ताकर्षकत्वं तव सुलभमिति ध्वन्यते । 'एनम्' इति
पाठे नेत्रमित्यध्याहारः । नायकं वलय विलोकयेति वा योज्यम् । मानश्चायमन्यथासि-
द्धकुतूहलाद्यपनेयः । 'पल्वलपङ्केरुहसङ्गसकलरुचम्' इत्यपि कचित्पाठः ॥
 
अत्यन्तं सा त्वद्विरहखिन्ना त्वदधीनैवेत्यवगत्यानुग्राह्या नायिकेति तत्सखी नायकं
वक्ति--
 
सा पाण्डुदुर्बलाङ्गी नयसि त्वं यत्र याति तत्रैव ।
कठिनीव कैतवविदो हस्तग्रहमात्रसाध्या ते ॥ ६८४ ॥
 
सेति । एषा पाण्डूनि दुर्बलान्यङ्गानि यस्या एतादृशी । त्वद्विरहवशादिति भावः ।
त्वं यत्र नयसि तत्रैव याति । यास्यतीत्यर्थः । एवं चान्यविषयकप्रेमशून्यत्वमावेद्यते ।
कठिनीव कैतवविदः । एवं त्वदीय एवापराधो न तस्या इति भावः । यद्वा येन व्या.-
जेन तत्र गत्वा तत्संमानं विधेयं तत्सर्वेवं त्वया विज्ञायते किं मयोपदेष्टव्यमिति भावः ।
ते हस्तग्रहमात्रसाध्या । एवं च चाटुवचनादिकं किमपि नापेक्षितमिति भावः । खटि-
कापि पाण्डुरवर्णा सूक्ष्मा लेखककरग्रहाधीना यत्र यत्र नीयते तत्र तत्र गच्छति ॥
 
कस्यचिहूती कांचन वक्ति--
 
सखि विश्वगञ्जनीया लक्ष्मीरिव कमलमुखि कदर्यस्य ।
त्वं प्रवयसोऽस्य रक्षावीक्षणमात्रोपयोग्यासि ॥ ६८५ ॥
 
सखीति । हे सखि, कदर्यस्य कृपणस्य विश्वोपमर्द्या लक्ष्मीरिव । एवं च पुरुषोत्त-
मसंगतियोग्यत्वं व्यज्यते । कमलवदने, त्वं प्रकृष्टं वयो यस्येत्येवंविधस्यास्य रक्षणं रक्षा
वीक्षणं च तन्मात्रे उपयोगो यस्याः । कृपणलक्ष्मीरपि भोगाद्यभावात्तथाविधेति भावः ॥
एतादृश्यसि । एवं चायन्तसौन्दर्यशालिनी त्वमेतस्य सुरताक्षमस्य जरठस्य नोपयो-
गिनी, अतः पुरुषविशेषे मनः कुर्विति व्यज्यते ॥
 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता सकारव्रज्या ।
-------------------------------------
 
हकारव्रज्या ।
 
नायकः सखायं वक्ति--
 
हृदयज्ञया गवाक्षे विसदृक्षं किमपि कूजितं सख्या ।
यत्कलहभिन्नतल्पा भयकपटादेति मां सुतनुः ॥ ६८६ ॥