This page has not been fully proofread.

२२४
 
काव्यमाला ।
 
बाष्पोदकं संवृणु । कजलेनोपरज्यैनां दृशं वलय । उत्तरङ्गयेत्यर्थः । दयितः । एवं चावश्य-

समाधेयत्वमावेद्यते । किसलयेन्दीवरयोरेककालमेव रुचं पश्यतु । एवं च रोदनादिना

रक्ततामापन्नाया दृशः कजलदानेन श्यामतासंपादनेन व्यधिकरणत्वेन प्रसिद्धयोरपि

पल्लवेन्दीवरयोरैकाधिकरण्यसंपादनेन सर्वाद्भुतवस्तु प्रदर्शन जनितानन्ददानेन नय स्वा

धीनतामिति भावः । 'दृशम्' इति स्थाने 'भृशम्', 'पल्लव-' इति स्थाने 'पल्वल-' इति

पाठे भृशमधिरज्यैनां दृशमित्यध्याहार्य वलयेति योजना । अञ्जनदानेन पङ्कवत्तासंपाद •

नेन पङ्कजसत्त्वयोग्यता । एवं च सरसि पङ्केरुहवत्ता प्रसिद्धा । पल्वलेऽपि तद्भवनेन च-

मत्कारातिशयप्रदर्शनेन नायकचित्ताकर्षकत्वं तव सुलभमिति ध्वन्यते । 'एनम्' इति

पाठे नेत्रमित्यध्याहारः । नायकं वलय विलोकयेति वा योज्यम् । मानश्चायमन्यथासि-

द्धकुतूहलाद्यपनेयः । 'पलवलपङ्केरुहसङ्गसकलरुचम्' इत्यपि कचित्पाठः ॥
 

 
अत्यन्तं सा त्वद्विरहखिन्ना त्वदधीनैवेत्यवगत्यानुग्राह्या नायिकेति तत्सखी नायकं
वक्ति -
 

वक्ति--
 
सा पाण्डुदुर्बलाङ्गी नयसि त्वं यत्र याति तत्रैव ।

कठिनीव कैतवविदो हस्तग्रहमात्रसाध्या ते ॥ ६८४ ॥
 

 
सेति । एषा पाण्डूनि दुर्बलान्यङ्गानि यस्या एतादृशी । त्वद्विरहवशादिति भावः ।

त्वं यत्र नयसि तत्रैव याति । यास्यतीत्यर्थः । एवं चान्यविषयकप्रेमशून्यत्वमावेद्यते ।

कठिनीव कैतवविदः । एवं त्वदीय एवापराधो न तस्या इति भावः । यद्वा येन व्या.

जेन तत्र गत्वा तत्संमानं विधेयं तत्सर्वे त्वया विज्ञायते किं मयोपदेष्टव्यमिति भावः ।

ते हस्तग्रहमात्रसाध्या । एवं च चाटुवचनादिकं किमपि नापेक्षितमिति भावः । खटि-

कापि पाण्डुरवर्णा सूक्ष्मा लेखककरग्रहाधीना यत्र यत्र नीयते तत्र तत्र गच्छति ॥

 
कस्यचिहूती कांचन वक्ति
 
--
 
सखि विश्वगञ्जनीया लक्ष्मीरिव कमलमुखि कदर्यस्य ।
 

त्वं प्रवयसोऽस्य रक्षावीक्षणमात्रोपयोग्यासि ॥ ६८५ ॥

 
सखीति । हे सखि, कदर्यस्य कृपणस्य विश्वोपमर्या लक्ष्मीरिव । एवं च पुरुषोत्त

मसंगतियोग्यत्वं व्यज्यते । कमलवदने, त्वं प्रकृष्टं वयो यस्येत्येवंविधस्यास्य रक्षणं रक्षा

वीक्षणं च तन्मात्रे उपयोगो यस्याः । कृपणलक्ष्मीरपि भोगाद्यभावात्तथाविधेति भावः ॥

एतादृश्यसि । एवं चायन्तसौन्दर्यशालिनी त्वमेतस्य सुरताक्षमस्य जरठस्य नोपयो-

गिनी, अतः पुरुषविशेषे मनः कुर्विति व्यज्यते ॥
 

 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता सकारव्रज्या ।
 

-------------------------------------
 
हकारव्रज्या ।
 

 
नायकः सखायं वक्ति-
-
 
हृदयज्ञया गवाक्षे विसदृक्षं किमपि कूजितं सख्या ।

यत्कलहभिन्नतल्पा भयकपटादेति मां सुतनुः ॥ ६८६ ॥
 
Sri Ganges
 
GDF
 
Diginal Foundation