This page has been fully proofread once and needs a second look.

धातुरपि चतुर्मुखत्वेऽपि हृदयस्यैकत्वात् । यद्वा त्वत्प्रियतमः सर्वसपत्नीषु समबुद्धिरिति
वादिनीं सखीं नायिका वक्ति--एवं च मय्येवासक्तिस्तस्य नान्यत्रेति ध्वन्यते ॥
 
सुन्दरत्वा दिगुणयुक्तः कथं न पराङ्गनासक्त इति तर्कयन्तीं नायिकां नायकसखी
वक्ति--
 
सत्यं मधुरो नियतं वक्रो नूनं कलाधरो दयितः ।
स तु वेद न द्वितीयामकलङ्कः प्रतिपदिन्दुरिव ॥ ६८१ ॥
 
सत्यमिति । सः । इदमप्ग्रेऽप्यन्वेति । मधुरः सुन्दरो मृष्टभाषी वा । इदं सत्यम् ।
नात्र संदेह इति भावः । एवमग्रेऽपि । एवं च स्पृहणीयत्वमावेद्यते । वक्रो नियतं
वक्रोक्तिनिपुणः कुटिलो वा । एवं च पराङ्गनारञ्जकत्वं ध्वन्यते । कलाधरः । नूनं नि-
श्चितम् । एवं च पराङ्गनाचित्ताकर्षणनिपुणत्वं व्यज्यते । दयितः । तु पुनः । कलङ्कोऽप-
वादस्तच्छून्यः प्रतिपच्चन्द्र इव द्वितीयामपरां न वेद । एवं च मधुरत्वादिगुणसत्त्वेऽपि
न तादृगन्यः साधुरिति व्यज्यते । प्रतिपच्चन्द्रोऽपि मधुरो वक्रः कलावानपि निष्कलङ्को
द्वितीयाभिधां तिथिं न जानाति । सत्यं नियतं नूनमेमिः पदैर्मधुरात्वादौ न संदेह
इति प्रतिपादनेन तद्वत्त्वेऽपि तत्कार्याभाववत्त्वेनातिसद्वृत्तत्वं व्यज्यते । न च तस्मिन् य-
थाकथंचिदन्यादृगाचरणसंभावनया कोपकरणं तवोचितमिति प्रतियोगिविशेषानुपादा-
नेन मधुरत्वादौ सर्वप्रतियोगिकत्वेन सर्वाधिक्यमावेद्यते । यद्वा सौन्दर्यादिगुणयुक्तस्त्वद्द-
यितः कथं नापराङ्गनालम्पट इति वादिनीं सखीं नायिका वक्ति--एवं चैतादृशनायकव-
त्तया स्वस्मिन्नाधिक्यमावेद्यते ॥
 
दुर्जनस्य स्वीयपक्षरक्षणमपीति कश्चित्कं कञ्चिद्वति--
 
स्वस्थानादपि विचलति मज्जति जलधौ च नीचमपि भजते ।
निजपक्षरक्षणमनाः सुजनो मैनाकशैल इव ॥ ६८२ ॥
 
स्वेति । स्वाङ्गीकृतरक्षणचित्तः सुजनो मैनाकाभिधपर्वत इव स्वस्थानादपि विचलति ।
अपिश्चलनानर्हत्वमावेदयति । परसदनं गच्छतीत्यर्थः । डलयोरैक्याज्जडा मूर्खा धीय-
न्ते यस्मिन्निति जडसमूहस्तत्रापि मज्जति । तद्रूपभाग्भवतीत्यर्थः । यद्वा समुद्र पर्यन्त-
मपि गच्छतीत्यर्थः । एवं च क्लेशागणनमावेद्यते । क्षुद्रमपि भजत आराधयति । एवं
च सुजनो यदङ्गीकारं करोति तन्निर्वाहं स्वस्यानुचितैरपि नानाविधोपायैः करोति न दुष्ट
इति सुजनसंनिधिरेवोचित इति ध्वन्यते । पक्षच्छेदनप्रवृत्तेन्द्रभयान्मैनाकोऽपि पृथिवीं
विहाय समुद्रे गत्वा तन्नीचदेशमप्यवलम्ब्य स्थितः - इति पुराणप्रसिद्धिः ॥
 
मानवतीं नायिकां सखी वक्ति--
 
संवृणु बाष्पजलं सखि दृशमुपरज्याञ्जनेन वलयैनाम् ।
दयितः पश्यतु पल्लवपङ्कजयोर्युगपदेव रुचम् ॥ ६८३ ॥
 
संवृण्विति । हे सखि । एवं च हितकथनार्हत्वं ध्वन्यते । तेन च मदुक्तं कुर्विति ।