2023-02-27 22:11:09 by ambuda-bot
This page has not been fully proofread.
२२२
काव्यमाला ।
विद्यैवाभ्यसनीया त्वयेदानीं न द्रव्ये मनः कर्तव्यमिति कश्चित्कंचिद्वक्ति -
सुखयतितरां न रक्षति परिचयलेशं गणाङ्गनेव श्रीः ।
कुलकामिनीव नोज्झति वाग्देवी जन्मजन्मापि ॥ ६७८ ॥
सुखयतीति । श्रीर्वेश्येवातिशयेन सुखयति । परिचयलेशं न रक्षति । सरस्वती कुल-
कान्तेव जन्मजन्मापि न त्यजति । एवं च विद्याभ्यास आवश्यक इति भावः ॥
नायिका सखीं वक्ति-
स्वसदननिकटे नलिनीमभिनवजातच्छदां निरीक्ष्यैव ।
हा गृहिणीति प्रलपंश्चिरागतः सखि पतिः पतितः ॥ ६७९ ॥
स्वेति । हे सखि, स्वसदनसविधे । एवं च च्छदग्रहणयोग्यत्वं ध्वन्यते । कमलिनीं
नूतनसंजातदलाम् । एवं च पूर्वपत्राभावो नायिकाविरहनिबन्धन एवेति ध्वन्यते ।
दृष्ट्वैव । एवं च प्रश्नाद्यकरणेनातिशयिताधैर्यमावेद्यते । तत्कालमागतः । एवं च चिर-
प्रवासाभावेन तथाविधविरहाद्ययोग्यत्वेऽपि तदज्ञानेनात्यन्तासक्तिरावेद्यते । हा गृहि-
णि, इति प्रलपन् । संपूर्णवाक्यानभिधानं च दुःखोद्रेकमावेदयति । पतिः । प्राणेभ्यो-
ऽपि मयि स्नेहवानित्यर्थः । पतितः । मूर्छयेति भावः । यद्वा हे सखि, निलयनिकटे न
तु निलये । एवं चातिविरहयोग्यत्वं ध्वन्यते नायिकायाम् । यद्वा निलयनिकट इत्य-
नेन दर्शनयोग्यत्वं तेन चावश्योच्छेदनीयत्वमावेद्यते । अभिनवानां नूतनानाम् । अ
र्थात्पत्राणाम् । जातः समूहो यत्र । एतादृशानि च्छदानि । अर्थात्पुराणानि । यस्यां सा
तां नलिनीं निरीक्ष्यैवाचिरागतः पतिर्हा गृहिणि, इति प्रलपन्पतितः । एवं च मत्प्र-
स्थितौ नियतमेषा विरहमसहमाना जीवनवती प्राचीननवीनदलसमृद्धिशालिनीं विह-
न्यादेव । न चेयं व्याहता। तेन न जीवतीयमिति नलिनीदर्शनसमसमयमेव निश्चयेन
मूर्छित इति ध्वन्यते । अचिरागत इत्यनेनैतादृशसंभावना नर्हत्वं तथापि तत्करणेनात्य-
न्तनायिकासक्तिमत्त्व नायके व्यज्यत इत्यर्थः । एवं चैतादृशो नायकोऽन्यस्या नेति
भावः । क्वचित् 'नलिनीदलानि मलिनानि वीक्ष्यैव' इति पाठः ॥
नायकसखी नायिकां वक्ति-
सखि चतुराननभावाद्वैमुख्यं क्वापि नैव दर्शयति ।
अयमेकहृदय एव द्रुहिण इव प्रियतमस्तदपि ॥ ६८० ॥
सखीति। हे सखि । एवं च सत्यवादार्हलं ध्वन्यते। अयम् । एवं चान्येषामन्यादृशी
गतिरिति भावः। प्रियतमो विधातेव चतुराननभावात्सुमुखखात् । चातुर्यवत्त्वादिति या-
वत् । पक्षे चतुर्मुखखात् । क्वापि वैमुख्यम् । विरसत्वमित्यर्थः । पक्षे मुखाभाववत्वं नैव
दर्शयति । दर्शयत्येव नेत्यपि योजना । चतुराननभावादेवेत्यन्वयः । एवं च न चेतसः
सकाशादिति भावः । तदपि तथापि एकस्याम् । त्वयीति भावः । हृदयं यस्यैतादृशः ।
एवं चान्यासु चातुर्यवशादासकिं प्रदर्शयति वास्तवं तु त्वय्येवासक्तिरिति व्यज्यते ।