This page has not been fully proofread.

आर्यासप्तशती ।
 
स्वयमपि भूरिच्छिद्रश्चापलमपि सर्वतोमुखं तन्वन् ।
 
तित उस्तुषस्य पिशुनो दोषस्य विवेचनेऽधिकृतः ॥ ४३ ॥
स्वयमिति । स्वयं भूरिच्छिद्रोऽपि बहुवाच्योऽपि । एवं च स्वदोषेषु दर्शनयोग्यत्वे-
ऽपि तद्दर्शनाभावेन भ्रान्तत्वमावेद्यते । पक्षे बहुरन्ध्रोऽपि । सर्वतोमुखं सकलज-
नसमक्षम् । पक्षे सर्वदिग्विषयम् । चापलं मौखर्यम् । एवं च जनभीतिशून्यत्वं ध्वन्यते ।
पक्षे चाञ्चल्यम् । तन्वन्विस्तारयन् । एवं च विरत्यभावो ध्वन्यते । तितउः । 'तित-
उर्ना चालनी स्त्रियाम्' इत्यभिधानम् । पिशुनः परोत्कर्षासहिष्णुः । विवेचने निर्णये ।
पक्षे स्वीकारे । अधिकृतो दत्ताधिकारः । एवं च गुणादिकं विहाय दोषमात्राङ्गीक-
तृत्वं दुष्टानामिति भावः ॥
 
१५
 
अन्तर्मूढानर्थानव्यञ्जयतः प्रसादरहितस्य ।
 
संदर्भस्य नदस्य च न रसः प्रीत्यै रसज्ञानाम् ॥ ४४ ॥
अन्तरिति । अभ्यन्तरं गूढं स्थितन् । पक्षे निलीनान् । अर्थान्प्रतिपाद्य विषयान् ।
पक्षे पदार्थान् । अव्यञ्जयतो व्यञ्जनाविषयानकुर्वतः । पक्षेऽप्रकाशयतः । अत एव
प्रसादेन काव्यगुणेन । पक्षे निर्मलतया । रहितस्य । संदर्भस्य काव्यस्य । नदस्य च ।
पुंस्त्वनिर्देशेन निर्मलत्वस्यावश्यापेक्षणीयत्वमित्यावेद्यते । यद्वा नदत्वेन विरलतया
तत्तुल्य प्रतिपादनात्काव्येऽतिविरलत्वमा
वेद्यते । उक्तं हि [आनन्दवर्धनेन] –'द्वित्रा एव
कवयो द्वित्राण्येव काव्यानि' इति । रसः शृङ्गारादिः । पक्षे जलम् । रसज्ञानाम् । एवं
चान्येषां प्रीत्यजनकत्वेऽपि न काचित्क्षतिरिति भावः । प्रीत्यै न ॥
 
यदसेवनीयमसताममृतप्रायं सुवर्णविन्यासम् ।
 
सुरसार्थमयं काव्यं त्रिविष्टपं वा समं विद्मः ॥ ४५ ॥
 
यदिति । यदसतां सहृदयभिन्नानाम् । पक्षे पापवताम् । असेवनीयम् । अमृत
तुल्यम् । पक्षेऽमृतबहुलम् । सुवर्णानां शोभनाक्षराणां विन्यासो प्रथनं यत्र ।
'वर्ण तु चाक्षरे' इत्यमरः । पक्षे सुवर्णस्य हेनो विन्यासो रचनादि यत्र । शोभनर-
सार्थोभयप्रचुरम् । पक्षे देवसमूहबहुलम् । काव्यं त्रिविष्टपं स्वर्ग वा समं विद्मः । एवं
चात्र नान्यथाभाव आशङ्कनीय इति भावः । एवं च स्वर्गार्थ यथा सद्भिर्यत्नः क्रियते
तथा काव्यार्थ विधेय इति व्यज्यते ॥
 
सत्कविरसना शूर्पी निस्तुषतरशब्दशालिपाकेन ।
 
तृप्तो दयिताधरमपि नाद्रियते का सुधा दासी ॥ ४६ ॥
 
सदिति । सत्कवेः । एवं चासत्कवेर्निरासः । रसनैव शूर्थ्यल्पं शूर्पम् । 'प्रस्फोटनं
शूर्पमस्त्री ' इत्यमरः । यथा स्वल्पशूर्पेण निस्तुषता जायते न तथा महाशूर्पेणेति स्त्रीसंप्र-
दाय: । तया निस्तुषतरो निर्दोष: शब्दरूपो यः शालिस्तत्पाकेन । परिणतनिर्दोषकाव्या-
Sri Gurgeshwari Digital Foundation