This page has not been fully proofread.


 
आर्यासप्तशती ।
 
२२१
 
सकलेति । हे निखिलगुणैकस्थान भूरुहराज, दानववसत्या त्वं भूतले समीचीनानां

न प्रात्याणि फलकुसुमानि यस्यैतादृशो जातोऽसि । भूतले त्वमित्यनेन नान्ये महीरुद्दा

एतादृशाः किं तु त्वमेवेति भावः । एवं चैतादृशदुष्टसंगत्या सजातीयवृद्धमध्ये त्वया

प्रतिष्ठा न विधेयेति व्यज्यते ॥
 

 
नायको नायिकां वक्ति-
-
 
सुन्दरि ताटङ्कमयं चक्रमिवोद्वहति तावके कर्णे ।
 

निपतति निकामतीक्ष्णः कटाक्षबाणोऽर्जुनप्रणयी ॥ ६७९ ॥

 
सुन्दरीति । हे सुन्दरि, त्वदीये कर्णे ताटङ्कवरूपं चक्रमिवोद्वहति धारयति सति ।

पक्षे ऊर्ध्वं करोति सति । अत्यन्ततीक्ष्णोऽर्जुनप्रणयी । कृष्ण इत्यर्थः । शुष्क इति वा ।

पक्षे पाण्डुसुतार्जुनप्रेरित इत्यर्थः । कटाक्षरूपो बाणः । नायकचित्तापहरणादिति भावः।

पक्षे तत्तुल्यः । एवं चाकर्णान्तविशाललोचना त्वमसीत्यन्यथासिद्धकुतूहलेन मानापनो-

दनमभिव्यज्यते । सूर्याराधनसंजातकुन्तीतनयकर्णोऽपि यदा महीगिलितरथचक्रं नि-

का सितमुपक्रान्तवांस्तदार्जुनेन बाणेन ताडितः - इति पुराणम् ॥
 

 
भाग्यादिकं समीचीनमित्रस्य नास्तीति चिन्ताव्याकुलं कंचन कश्चिद्वक्ति
--
 
स्वाधीनैव फलद्धिर्जनोपजीव्यत्वमुच्छ्रयच्छाया ।
 

सत्पुंसो मरुभूरुह इव जीवनमात्रमाशास्यम् ॥ ६७६ ॥
 

 

 
स्वेति । मरुभुवि रोहतीति मरुभूरुहस्तस्येव मरुदेशीयवृक्षस्येव समीचीनपुरुषस्य

फलं द्रव्यादि । पक्षे यथाश्रुतम् । तस्य समृद्धिः स्वाधीनैव । इदमग्रेऽपि लिङ्गविपरि-

णामेनान्वेति । जनानामुपजीव्यत्वम् । अन्नादिदातृत्वात् । पक्षे फलादिप्रदानात् ।

अधिका छाया । इतरदुःखनिवारकत्वमित्यर्थः । पक्षे यथाश्रुतम् । जीवनमायुः । पक्षेत्र

जलम् । तदेवाशास्यम् । कर्कश देशवसतिमानेवमर्थेन मरुभूरुह इत्यपि सत्पुंसो विशे-

षणम् । एवं चायुष्ये सर्वमपि भवत्येवेत्यतस्त्वया न कापि जीवतस्तस्य चिन्ता विधे-

येति ध्वन्यते ॥
 

 
संपत्तिसंपन्नस्तव पतिः संवृत्त इति वादिनीं नायिका सखीं वक्ति-
-
 
संतापमोहकम्पान्संपादयितुं निहन्तुमपि जन्तून् ।
 

सखि दुर्जनस्य भूतिः प्रसरति दूरं ज्वरस्येव ॥ ६७७ ॥
 

 
संतापेति । सखि, ज्वरस्येव दुर्जनस्य भूतिरैश्वर्यम् । पक्षे भवनं भूतिः । संता-

पमोहकम्पान्सम्यगुत्पादयितुं जन्तून्नितरां हन्तुमपि दूरं प्रसरत्यधिकतरा भवति । एवं

चैतस्य संपत्तौ जातायां सपत्न्यादिसंपादनेन दुःखम्, किमस्या भविष्यतीति चिन्ता-

बाहुल्येन मौढ्यम्, समधिककोधकरणेन कम्पम्, दण्डदानेन चास्माकं प्राणविश्लेषमेवै-

तदैश्वर्ये करिष्यति न परं सुखलेशमपीति व्यज्यते । ज्वरोत्पत्तावपि संतापादिकमति--

तरां भवतीति चायुर्वेदे ॥